B.G 2.46
यावानर्थ उदपाने सर्वतः सम्प्लुतोदके। तावान्सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ॥२-४६॥
Gīta Bhāshya 2.46
तथापि काम्यकर्मणां फलं ज्ञानिनां न भवतीति साम्यमेव इत्यत आह– यावानर्थ इति।
यथा यावान् अर्थः प्रयोजनम् उदपाने कूपे भवति तावान् सर्वतः सम्प्लुतोदके अन्तर्भवत्येव। एवं सर्वेषु वेदेषु यत् फलं तत् विजानतोपि ज्ञानिनः ब्राह्मणस्य फले अन्तर्भवति।
ब्रह्म अणतीति ब्राह्मणः। अपरोक्षज्ञानी। स हि ब्रह्म गच्छति। विजानतः इति ज्ञानफलत्वं तस्य दर्शयति ॥४६॥
Gīta Tātparya 2.46
"उद्रेकात् पतृराहित्यात् अनत्वाच्चाखिलस्य च। प्रलयेप्युदपानोसौ भगवान् हरिरीश्वरः॥ प्रकृतिर्हि उदरोषेण सर्वमावृत्य तिष्ठति। प्रलयेतो लयं प्राहुः सर्वतः सम्प्लुतोदकम्॥" इति च।
"यावत् प्रयोजनं विष्णोः सकाशात् साधकस्य च। धर्ममोक्षादिकं तावत् सर्ववेदविदो भवेत्॥ वेदार्थनिर्णयो यस्मात् विष्णोर्ज्ञानं प्रकीर्तितम्। ज्ञानात् प्रसन्नश्च हरिर्यतोखिलफलप्रदः॥" इति च।
सर्वतः सम्प्लुतोदकेSपि उद्रिक्तः पालकवर्जितः कालाद्यनश्च यो विष्णुः तस्मात् यावत् फलं तावत् सर्ववेदेषु विशेषज्ञस्यैव भवतीत्यर्थः।
सर्वे हि विष्णोः अन्ये प्रलयकाले नोद्रिक्ताः। ये च उद्रिक्ताः मुक्ताः रमा च तेपि न पालकवर्जिताः। विष्णुपाल्यत्वात्। न च मुक्ताः कालादिचेष्टकाः। न च उद्रिक्तत्वं तेषां तद्वत्। अतः उदपानो विष्णुरेव। प्रलये विशेषतोपि।
"आनीदवातं स्वधया तदेकं तस्माद्धान्यन्न परः किञ्चनाSस। तम आसीत् तमसा गूळ्हमग्रे अप्रकेतं सलिलं सर्वमा इदम्॥"
"आपो वा इदमग्र सलिलम् आसीत् सलिल एको द्रष्टा अद्वैतो भवति॥"
इत्यादि श्रुतिभ्यः ॥४६॥