B.G 2.47
कर्मण्येवाधिकारस्ते मा फलेषु कदाचन। मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि ॥२-४७॥
Gīta Bhāshya 2.47
कामात्मनां निन्दा कृता। कथम् एषाम् 'स्वर्गकामो यजेत' इत्यादौ कामस्यापि विहितत्वात् इत्यत आह- 'कर्मण्येवेति'।
ते इत्युपलक्षणार्थम्। तव ज्ञानिनोपि न फलकाम कर्तव्यता। किमु अन्येषाम्। नत्वस्ति केषाञ्चित् न ते अस्तीति।
स हि ज्ञानी नरांशः इन्द्रश्च। मोहादिस्तु अभिभवादेः। यदि तेषां शुद्धसत्त्वानां न स्यात् ज्ज्ञानम् क्व अन्येषाम्। उपदेशादेश्च सिद्धं ज्ञानं तेषाम्। 'पार्थार्ष्टिषेण' इत्यादि ज्ञानिगणनाच्च।
कामनिषेध एवात्र। फलानि ह्यस्वातन्त्र्येण भवन्ति। न हि कर्मफलानि कर्माभावे यत्नतो भवन्ति । भवन्ति च काम्यकर्मिणो विपर्ययप्रयत्ने पि अविरोधे।
अतः कर्माकरणे एव प्रत्यवायः। न तु ज्ञानादिना वा अकामनया फलाप्राप्तौ। अतः कर्मण्येवाधिकारः। अतस्तदेव कार्यम्। न तु कामेन ज्ञानादिनिषेधेन वा फलप्राप्तिः।कामवचनानां तात्पर्यं भगवत्यैव उक्तम्।
"रोचनार्थं फलश्रुतिः", "यथा भैषज्यरोचनम्"
इत्यादौ भागवते। अत एव "कामी यजेत" इत्यर्थः। न तु कामी भूत्वा इत्यर्थः। "निष्कामं ज्ञानपूर्वं च" इति वचनात्। (मनु १२-८९) वक्ष्यमाणेभ्यश्च ।
"वसन्ते वसन्ते ज्योतिषा यजेत" इत्यादिभ्यश्च। अतः मा कर्मफलहेतुर्भूः। कर्मफलं तत्कृतौ हेतुः यस्य सः कर्मफलहेतुः। सः मा भूः। तर्हि न करोमि इत्यत आह– 'मा ते' इति। कर्माकरणे स्नेहो मास्तु इत्यर्थः। अन्य फलाभावेपि मत्प्रसादाख्यफलभावात्।
इच्छा च तस्य युक्ता। "वृणीमहे ते परितोषणाय" इति महदाचारात् । अनिन्दनात् विशेषतः इतरनिन्दनाच्च। सामान्यं विशेषो बाधते इति च प्रसिद्धम् – "सर्वानानय नैकं मैत्रम्" इत्यादौ। अतः-
"नैकात्मतां मे स्पृहयन्ति केचित्", "भक्तिमन्विच्छन्तः", "ब्रह्मजिज्ञासा", "विज्ञाय प्रज्ञां कुर्वीत", "द्रष्टव्यः"
इत्यादि वचनेभ्यः। वार्थसेवकं प्रति न तथा स्नेहः किं ददामीत्युक्ते सेवादियाचकं प्रति बहुतरः स्नेहः इति लौकिकन्यायाच्च भक्तिज्ञानादिप्रार्थना कार्येति सिद्धम् ॥४७॥
Gīta Tātparya 2.47
कर्माधिकारिण एव त्वदादयो जीवाः। फलं तु मदायत्तमिति भावः। मा कर्मफलहेतुः भूः न इश्वरोहमिति भावं कुरु।
"एष उ एव शुभाशुभैः कर्मफलैरेनं संयोजयति न स्वयं संयुक्तो भवति। यदेनं कर्मफलैः संयोजयति न स्वयं संयुक्तो भवति। तस्मादन्य एवासौ भगवान् वेदितव्य।"
इति पैङ्गिश्रुतिः ॥४७॥