B.G 2.45
त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन। निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् ॥२-४५॥
Gīta Bhāshya 2.45
तां योगबुदि्धमाह- त्रैगुण्यविषया इत्यादिना इतरदपोद्य। वेदानां परोक्षार्थत्वात् त्रिगुणसम्बन्धि स्वर्गादि प्रतीतितोर्थ इव भाति।
"परोक्षवादी वेदोयम्" इति ह्युक्तम्।
अतः प्रातीतिकेर्थे भ्रान्तिं मा कुर्वित्यर्थः।
"वादो विषयकत्वं च मुखतो वचनं स्मृतं।" इत्यभिधानम्।
न तु वेदपक्षो निषिध्यते।
"वेदे रामायणे चैव पुराणे भारते तथा। आदावन्ते च मध्ये च विष्णुः सर्वत्र गीयते॥"
"सर्वे वेदा यत्पदमामनन्ति।"
"वेदोखिलो धर्ममूलं स्मृऽतिशीले च तद्विदाम्। आचारश्चैव साधूनाम् आत्मनो तुष्टिरेव च॥"
"वेदप्रणिहितो धर्मः ह्यधर्मस्तद्विपर्ययः॥"
इति वेदानां सर्वात्मना विष्णुपरत्वोक्तेः। तद्विहितस्य तद्विरुद्धस्य च धर्माधर्मत्वोक्तेश्च ॥ ४५ ॥
Gīta Tātparya 2.45
त्रैगुण्याख्यं विषं यापयन्ति अपगमयन्तीति त्रैगुण्यविषयाः।
"आश्रित्य वेदांस्तु पुमान् त्रैगुण्यविषहारिणः। निस्त्रैगुण्यो भवेन्नित्यं वासुदेवैकसंश्रयः॥" इति च।
"सत्त्वं साधुगुणात् विष्णुः आत्मा सन्ततिहेतुतः॥" इति च।
सन्ततविष्णुस्मरणं नित्यसत्त्वस्थत्वम्। परमात्मा मम स्वामी इति ज्ञानमात्मवत्त्वम्। तेन ऐक्यज्ञानं निवर्तयति।
विरुद्ध योगक्षेमेच्छावर्जितः। अन्यथा उत्थानादेः अपि अयोगात् ॥४५॥