Bhagavad Gīta Bhāshya
B.G 2.49
दूरेण ह्यवरं कर्म बुद्धियोगाद्धनञ्जय। बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः ॥२-४९॥
Gīta Bhāshya 2.49
इतश्च योगाय युज्यस्व इत्याह– 'दूरेण' इति । बुदि्धयोगात् ज्ञानलक्षणात् उपायात्। दूरेण अतीव। अतो बुद्धौ शरणं ज्ञाने स्थितिम्। फलं कर्मकृतौ हेतुः एषां ते फलहेतवः ॥४९॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2023, Incredible Wisdom.
All rights reserved.