B.G 2.50
बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते। तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम् ॥२-५०॥
Gīta Bhāshya 2.50
ज्ञानफलमाह – 'बुदि्धयुक्त' इति।
सुकृतमपि अप्रियं मानुष्यादिफलं जहाति न बृहत्फलम् उपासनादिनिमित्तम्।
"न हास्य कर्म क्षीयते", "अविदित्वास्मिन् लोके जुहोति यजते तपस्तप्यते बहूनि वर्षसहस्राण्यन्तवदेवास्य तद्भवति॥"
-इत्यादिश्रुतिभ्यः।
अतः कर्मक्षयश्रुतिः अज्ञानिविषया सर्वत्र। उभयक्षयश्रुतिरपि अनिष्टविषया । न हि इष्टपुण्यक्षये किञ्चित् प्रयोजनम्। न च इष्टनाशो ज्ञानिनो युक्तः। इष्टाश्च केचिद्विषयाः।
"स यदि पितृलोककामो भवति सङ्कल्पादेवास्य पितरः समुत्तिष्ठन्ति।", "प्रजापतेः सभां वेश्म प्रपद्ये।" "यशोहं भवामि ब्राह्मणानाम्।", "स्त्रीभिर्वा यानैर्वा।", "अस्मात् ह्येवात्मनो यद्यत् कामयते तत्तत् सृजते।", "कामान्नी काम रूप्यनुसञ्जरन्।", "स एकधा भवति।"
-इत्यादि श्रुतिभ्यः।
बहुत्वेप्यात्मसुखस्य पुनरिष्टत्वात् कर्मसुखे न विरोधः। अनुभवशक्तिश्च इश्वरप्रसादात्। श्रुतेश्च। न च शरीरपातात् पूर्वमेतत्-
"स तत्र पर्येति", "एतमानन्दमयमात्मानमुपसङ्क्रम्य"
इत्याद्युत्तरत्र श्रवणात्।
न च एकीभूत एव ब्रह्मणा सः।
"मग्नस्य हि परेSज्ञाने किं न दुःखतरं भवेत्।"
इत्यादि निन्दनात् मोक्षधर्मे। परिहारे पृथग् भोगाभिधानाच्च। शुकादीनां पृथक् दृष्टेश्च।
"जगद्व्यापार वर्जम्"
इति ऐश्वर्यमर्यादोक्तेश्च।
"इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः।"
इति च। उपाधिनाशे नाशाच्च प्रतिबिम्बस्य। न च एकीभूतस्य पृथक् ज्ञाने मानं पश्यामः।
"आसं दुःखी नासम्।"
इति ज्ञानविरोधाच्च ईश्वरस्य। अनेन रूपेण इति च भेदाभावात्।
न च प्रतिबिम्बस्य बिम्बैक्यं लोके पश्यामः। उपाधिनाशे मानं वा।
"मग्नस्य हि परेSज्ञाने"
इति दुःखात्मकत्वोक्तेश्च।
"यावदात्मभावित्वात्" (यावदात्मभावित्वाच्च न दोषस्तद्दर्शनात् - Brahma Sutra 2.3.30)
इति उपाधि नित्यताSभिधानाच्च । अतः अन्यवचनं प्रतीयमानमपि औपचारिकम्।
दृष्टाश्च ते भगवतो भिन्नाः नारदेन। प्रतिशाखं च "स एकधा" इत्यादिषु भेदेन प्रतीयन्ते। विरोधे तु युक्तिमताम् एव बलवत्त्वम्। युक्तयश्चात्रोक्ताः "मग्नस्य हि" इत्यादयः। अतो जले जलैकीभाववत् एकीभावः। उक्तं च -
"यथोदकं शुद्धे शुद्धम्", "यथा नद्यः"
इत्यादौ। तत्रापि अन्योन्यात्मकत्वे वृद्ध्यसम्भवः। अस्ति च ईषत् समुद्रेपि द्वारि। महत्त्वात् अन्यत्रादृष्टिः।
"ता एवापो ददौ तस्य स ऋषिः शंसितव्रतः।"
इति महाकौर्मे समर्थानां भेदज्ञानाच्च।
"नैव तत् प्राप्नुवन्त्येते ब्रह्मेशानादयः सुराः। यत् ते पदं हि कैवल्यम्।"
इति निषेधाच्च नारदीये। सविचारश्च निर्णयः कृतः मोक्षधर्मेषु। बलवांश्च सविचारो निर्णयो वाक्यमात्रात्। अतो–
"यत्र नान्यत् पश्यति"
इत्याद्यपि तदधीनसत्तादिवाचि। अन्यथा कथम् ऐश्वर्यादि स्यात्। न च तन्मायामयम् इत्युक्तम्। अन्यथा कथं तत्रैव "स एकधा" इत्यादि ब्रूयात्।
न च "न ह वै सशरीरस्य" इत्यादि विरोधः। वैलक्षण्यात् तच्छरीराणाम्। अभौतिकानि हि तानि नित्योपाधिविनिर्मितानि ईश्वरशक्त्या। तथा चोक्तम्–
"शरीरं जायते तेषां षोडश्या कलयैव च।"
इत्यादि नारायणाष्टाक्षरकल्पे। वदन्ति च लौकिकात् वैलक्षण्ये अभावशब्दम्। "अप्रहर्षमनानन्दम्", "सुखदुःखबाह्यः" इत्यादिषु। निरुक्त्यभावाच्च न तानि शरीराणि। तथाहि श्रुतिः-
"अशारीती तच्छरीर मभवत्"
इति। न हि तानि शीर्णानि भवन्ति।
"सर्गेपि नोपजायन्ते प्रलये न व्यथन्ति च।"
इत्यादिवचनात्। साम्यात् प्रयोगः। प्रयोगाच्च-
साम्यात् प्रयोगः। प्रयोगाच्च-
"अनिंद्रिया अनाहारा अनिष्पन्दा स्सुगन्धिनः।"
"देहेंद्रियासुहीनानां वैकुण्ठपुरवासिनाम्।"
इत्यादि दृष्टदेहेष्वेव।
न चैषा अन्या गौणी मुक्तिः-
"बहुनात्र किमुक्तेन यावच्छ्वेतं न गच्छति। योगी तावन्न मुक्तः स्यादेष शास्त्रस्य निर्णयः॥"
इत्यादित्यपुराणे तदन्यमुक्तिनिषेधात्। ये तु अत्रैव भगवन्तं प्रविशन्ति तेSपि पश्चात् तत्रैव यान्ति। योग्यत्वं चात्र विवक्षितम्। युधिष्ठिरप्रश्ने इतरनिन्दनाच्च। सायुज्यं च ग्रहवत्। तदुक्तेश्च -
"भुञ्जते पुरुषं प्राप्य यथा देवग्रहादयः। तथा मुक्तावुत्तमायां बाह्यान् भोगांस्तु भुञ्जते॥"
इति नारायणाष्टाक्षरकल्पे।
अतोनिष्टस्यैव वियोगः। सः अस्त्येव सर्वात्मना–
"अदुःखम्", "सर्वदुःखविवर्जिताः", "अशोकमहिमम्", "यत्र गत्वा न शोचति"
इत्यादिभ्यः। विशेषवचनाभावाच्च। येषां तु ईषत् दृश्यते न ते सायुज्यं प्राप्ताः। सामीप्याद्येव तेषाम्। अतः प्रारब्धकर्मशेषभावात् तद्भुक्त्वा सायुज्यं गच्छन्ति। तच्चोक्तम्-
"सङ्कर्षणादयः सर्वे स्वाधिकारादनन्तरम्। प्रविशन्ति परं देवं विष्णुं नास्त्यत्र संशयः॥"
इति व्यासयोगे। अतः अनिष्टस्य सर्वात्मना वियोगः।
"परब्रह्मत्वमिच्छामि परमात्मन् जनार्दन।"
-इत्यादिना ब्रह्मादिभिरपि प्रार्थितत्वात्।
"न मोक्षसदृशं किञ्चिदधिकं वा सुखं क्वचित्। ऋते वैष्णवमानन्दं वाङ्मनोगोचरं महत्॥"
इत्यादेश्च ब्रह्मादिपदादप्यधिकतमं सुखं च मोक्ष इति सिद्धम्। अतो योगाय युज्यस्व। ज्ञानोपायाय। तदि्ध कर्मकौशलम् ॥५०॥