Bhagavad Gīta Bhāshya and Tātparya
B.G 18.56
सर्वकर्माण्यपि सदा कुर्वाणो मद्व्यपाश्रयः। मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम् ॥५६॥
Gīta Bhāshya 18.56
पुनः अन्तरङ्गसाधनान्युक्त्वा उपसंहरति- सर्वकर्माणि इत्यादिना ॥५६॥
Gīta Tātparya 18.56
विहितानि सर्वकर्माण्यपि मद्व्यपाश्रयो भूत्वा सदा कुर्वाणः। न हि यथेष्टाचरणे तात्पर्यमत्र। तथा सति विहितकरणेपि समत्वात्।
"मामनुस्मर युद्ध्य च", "ततः स्वधर्मं किर्तिं च" इत्यादिप्रस्तुतविरोधः।
अपि शब्दस्तु एकमपि कर्म अतदाश्रयेण न कार्यमित्यर्थे ॥५६॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2025, Incredible Wisdom.
All rights reserved.