Bhagavad Gīta Bhāshya and Tātparya
B.G 18.20
सर्वभूतेषु येनैकं भावमव्ययमीक्षते। अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्त्विकम् ॥२०॥
Gīta Bhāshya 18.20
एकं भावं विष्णुम् ॥२०॥
Gīta Tātparya 18.20
"अस्तित्वाद् भूतनामभ्यः सर्वजीवेभ्य एव च। मुक्तेभ्योपि पृथक्त्वेन विष्णोः सर्वत्रगस्य च॥
ऐक्येन च स्वरूपाणां प्रादुर्भावादिकात्मनाम्। तारतम्येन जीवानां भेदेनैव परस्परम्॥
जडेभ्यश्चैव जीवानां जडानां च परस्परम्। तेभ्यो विष्णोश्च सम्यक् तल्लक्षणज्ञानपूर्वकम्। ज्ञानं सात्त्विकमुद्दिष्टं यत् साक्षात् मोक्षकारणम्॥"

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2025, Incredible Wisdom.
All rights reserved.