Bhagavad Gīta Bhāshya and Tātparya
B.G 17.08
आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनाः। रस्या स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः ॥८॥
Gīta Bhāshya 17.08
प्रीतिः अनन्तरिका। हृद्यत्वं दर्शने। स्थिराश्च न तदैव पक्वा भवन्ति। तथाहि आज्यादयः ॥८॥
Gīta Tātparya 17.08
स्थिराः स्थिरगुणाः घृतादयः। कट्वादीनामपि आरोग्यरसाद्यर्थत्वेन सात्त्विकत्वमेव। रस्यादीनामपि राजसत्वमनारोग्याहेतुत्वे।
"दुःखशोकामयप्रदाः"
इत्युक्तेः।
सत्त्वं साधुभावः। भवति हि सोऽपि शुच्यन्नात्।
"हृद्यं पश्चान्मनोहारि प्रियं तत्कालसौख्यदम्। सुखदं तु दीर्घसुखदं रस्यमभ्यास सौख्यदम्॥"
इति शब्दनिर्णये ॥८॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2025, Incredible Wisdom.
All rights reserved.