Bhagavad Gīta Bhāshya and Tātparya
B.G 15.08
शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः। गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात् ॥८॥
Gīta Bhāshya 15.08
कर्षति इत्युक्ते जीवस्य स्वातन्त्र्यं प्रतीतम्। तन्निवारयति- शरीरमित्यादिना॥
यत् यदा शरीरं अवाप्नोति उत्क्रामति च जीवः तदा इश्वर एव एतानि गृहीत्वा संयाति।
"यत्र यत्र च संयुक्त्तो धाता गर्भं पुनः पुनः। तत्र तत्रैव वसति न तत्र स्वयमिच्छति॥"
इति मोक्षधर्मे।
"भावाभावावविजानन् गरीयो जानामि श्रेयो न तु तत्करोमि। आशासु हर्म्यासु हृदासु कुर्वन् यथा नियुक्तोऽस्मि तथा वहामि॥"
इति च।
"हत्वा जित्वापि मघवन् यः कश्चित् पुरुषायते। अकर्ता त्वेव भवति कर्ता त्वे करोति तत्॥"
इति च।
"तद्यथाऽनः सुसमाहितं उत्सर्जद्यायात्। एवमेवां यं शारीर आत्मा प्राज्ञेनात्मनान्वारूढः उत्सर्जद्याति॥"
इति च श्रुतिः।
"वाङ्ग्मनसि सम्पद्यते मनः प्राणे प्राणस्तेजसि तेजः परस्यां देवतायाम्॥"
इति च।
गन्धानिव सूक्ष्माणि। भोगः अस्यापि साधितः पुरस्तात् ॥८॥
Gīta Tātparya 15.08
".....अथ यदा जीवमादाय यात्यतः। गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात् ॥८॥"

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2025, Incredible Wisdom.
All rights reserved.