B.G 15.02
अधश्चोर्ध्वं प्रसृतास्तस्य शाखा गुणप्रवृद्धा विषयप्रवालाः। अधश्च मूलान्यनुसन्ततानि कर्मानुबन्धीनि मनुष्यलोके ॥२॥
Gīta Bhāshya 15.02
अव्यक्तेऽपि सूक्ष्मरूपेण सन्ति शरीरादौ भूतानि इति अधश्चोर्ध्वं प्रसृताः। गुणैः सत्त्वादिभिः। प्रतीति मात्रसुखत्वात् प्रवालाः विषयाः। मूलानि भगवद्रूपादीनि। भगवानपि कर्मानुबन्धेन हि फलं ददाति।तथा च भाल्लवेयशाखायाम्-
"ब्रह्म वा अस्य पृथङ्ग्मूलं प्रकृतिः समूलम्। सत्त्वादयोऽर्वाचीनमूलम्। भूतानि शाखाः। छन्दांसि पर्णानि। देवनृतिर्यञ्चश्च शाखाः। पत्रेभ्यो हि फलं जायते। मात्राः शिफाः। मुक्तिः फलं अमुक्तिः फलम्। मोक्षो रसः अमोक्षो रसः। अव्यक्ते च शाखाः व्यक्ते च शाखाः। अव्यक्ते च मूलं व्यक्ते च मूलम्। एषोऽश्वत्थो गुणालोलपत्रो न स्थीयते न न स्थीयते। न ह्येष कदाचनान्यथा जायते नान्यथा जायते॥"
इति ॥२॥
Gīta Tātparya 15.02
"कारणेषु स्थितं कार्यं व्याप्तं कार्येषु कारणम्। अन्योन्यसन्तताः शाखा मूलानि च सदैव तु। विषयाः दर्शनीयत्वात् प्रवालसद्रुशाः मताः।"