B.G 15.01
श्रीभगवानुवाच
ऊर्ध्वमूलमधःशाखं अश्वत्थं प्राहुरव्ययम्। छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् ॥१॥
Gīta Bhāshya 15.01
संसारस्वरूपतदत्ययोपायविज्ञानानि अस्मिन्नध्याये दर्शयति-
ऊर्ध्वो विष्णुः।
"ऊर्ध्वपवित्रो वाजिनीवस्वमृतमस्मि। द्रविणं सवर्चसम्॥"
इति हि श्रुतिः।
ऊर्ध्वः उत्तमः सर्वतः। अधः निकृष्टम्। शाखा भूतानि। श्वोऽपि एकप्रकारेण न तिष्ठतीति अश्वत्थः। तथापि न प्रवाहव्ययः। पूर्वब्रह्मकाले यथा स्थितिः तथा सर्वत्रापि इति अव्ययता। फलकारणत्वात् - च्छन्दसां पर्णत्वम्। न हि कदाचिदपि अजाते पर्णे फलोत्पत्तिः ॥१॥
Gīta Tātparya 15.01
त्रयोदशाध्यायोक्तं विविच्य दर्शयति-
"पृथङ्ग् मूलं हरिस्त्वस्य जगद्वृक्षस्य भूमिवत्। सत्त्वादियुक्ते चिदचित्प्रकृती मूलभागवत्॥ अत्रापि चिदचिद्योगो वृक्षवत् सम्प्रकीर्तितः। पृथिवी देवतावत् तद्धरिर्मृद्वदचेतना। उत्तमत्वात्तु मूलानामूर्ध्वमूलस्त्वयं स्मृतः। नीचास्ततो महदहम्बुद्धयो भूतसंयुताः। शाखाः छन्दांसि पर्णानि काममोक्षफले ह्यतः॥ ॥१॥"