B.G 15.03 and 04
न रूपमस्येह तथोपलभ्यते नान्तो न चादिर्न च सम्प्रतिष्ठा। अश्वत्थमेनं सुविरूढमूलं असङ्गशस्रेण द्रुडेन छित्त्वा ॥३॥
ततः परं तत् परिमार्गितव्यं यस्मिन् गता न निवर्तन्ति भूयः। तमेव चाद्यं पुरुषं प्रपद्ये यतः प्रवृत्तिः प्रसृता पुराणी ॥४॥
Gīta Bhāshya 15.03 and 04
यथा स्थितः तथा नोपलभ्यते। अन्तादिर्विष्णुः।
"त्वमादिरन्तो जगतोऽस्य मध्यम्॥"
इति भागवते।
"अनाद्यनन्तं परं ब्रह्म न देवा ऋषयो विदुः।"
इति च मोक्षधर्मे।
असङ्गशस्त्रेण सङ्गराहित्य सहितेन ज्ञानेन।
"ज्ञानासिनोपासनया शितेन॥"
इति हि भागवते।
छेदश्च विमर्श एव। ततश्च तस्यैवाबन्धकं भवति। तथा हि मूलस्थं ब्रह्म प्रतीयते। तच्चोक्तं तच्छ्रुतावेव-
"विमर्शो हि च्छेदः। स तं न बध्नाति बध्नाति चान्यान्॥"
इति।
तदर्थं च तमेव प्रपद्ये प्रपद्येत। तच्चोक्तं तत्रैव-
"तं वै प्रपद्येत यं वै प्रपद्य न शोचति न हृष्यति न जायते न म्रियते तद्ब्रह्म मूलं तच्छित्सुः॥"
इति।
"नारायणेन दृष्टश्च प्रतिबुद्धो भवेत् पुमान्।"
इति च मोक्षधर्मे।
छेदनोपायो हि अत्र आकाङ्क्षितः। न च भगवतोऽन्यः शरण्योऽस्ति ॥३, ४॥
Gīta Tātparya 15.03 and 04
"जगद्वृक्षोयमश्वत्थो ह्यश्वत् चञ्चलात्मकः। अव्ययोऽयं प्रवाहेण स्वसक्तिज्ञानहेतिना॥
विष्णोः सम्यक् पृथक् द्रुष्टिनामच्छेदनभाक् सदा। अव्यक्तादिसमस्तं तु नेति नेत्यादि वाक्यतः॥
बोधेनैव पृथग् विष्णोः कृत्वा मृग्यः स केशवः। तमेवाद्यं प्रपद्येत यदंशाभासको ह्ययम्॥
जीवराशिः समस्तोऽपि ब्रह्मरुद्रेन्द्रपूर्वकः॥"