Bhagavad Gīta Bhāshya and Tātparya
B.G 14.03
मम योनिर्महद्ब्रह्म तस्मिन् गर्भं दधाम्यहम्। सम्भवः सर्वभूतानां ततो भवति भारत ॥३॥
Gīta Bhāshya 14.03
महद् ब्रह्म प्रकृतिः। सा च श्रीर्भूर्दुर्गेति भिन्ना। उमासरस्वत्याद्यास्तु तदंशयुता अन्यजीवाः। तथा च काषायणश्रुतिः-
"श्रीर्भूर्दुर्गा महती तु माया सा लोकसूति: जगतो बन्धका च। उमावागाद्या अन्यजीवास्तदंशाः तदात्मना सर्ववेदेषु गीताः॥"
इति।
'मम योनिः' गर्भाधानार्था योनिः। न तु माता। वाक्यशेषात्। तथाहि सामवेदे शार्कराक्ष्यश्रुतौ-
"विष्णोर्योनिः गर्भसन्धारणार्था महामाया सर्वदुःखैर्विहीना। तथाप्यात्मानं दुःखिवन्मोहनार्थं प्रकाशयन्ती सह विष्णुना सा॥"
इति।
अतः सीतादुःखादिकं वृथा प्रदर्शनमेव। तथा कूर्मपुराणे। न चेयं भूः। तथा च सौकरायणश्रुतिः-
"अन्या भू: भूरियं तस्य छाया भूतावमा सा हि भूतैकयोनिः॥"
इति।
"अवाप स्वेच्छया दास्यं जगतां प्रपितामही॥"
इति अनभिम्लातश्रुतिः।
मत्स्यपुराणोक्तमपि स्वेच्छयैव। महद्ब्रह्मशब्दवाच्यापि प्रकृतिरेव-
"महती ब्रह्मणी द्वे तु प्रकृतिश्च महेश्वरः।"
इति तत्रैव ॥३॥
Gīta Tātparya 14.03
"योनिः भार्या तथा स्थानं योनिः कारणमेव च।"
इति शब्दनिर्णये।
अत्र योनिः भार्या। 'तस्मिन् गर्भं दधाम्यहम्' इति वाक्यशेषात् ॥३॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2023, Incredible Wisdom.
All rights reserved.