B.G 13.21
कार्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यते। पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते ॥२१॥
Gīta Bhāshya 13.21
कार्यं शरीरम्।
"शरीरं कार्यमुच्यते"
इत्यभिधानात्न।
करणानि इंद्रियाणि। भोगोनुभवः। स हि चिद्रूपत्वात् अनुभवति। प्रकृतिश्च जडत्वात् परिणामिनी।
"कार्यकारणकर्तृत्वे कारणं प्रकृतिं विदुः। भोक्तृत्वे सुखदुःखानां पुरुषं प्रकृतेः परम्॥"
इति भागवते ॥२१॥
Gīta Tātparya 13.21
"स्वदेहेंद्रियहेतुत्वं यज्जीवस्य स्वकर्मभिः। आवृत्य विष्णुतत्त्वं तद्धेतुश्चित्प्रकृतिर्मता॥
जीवस्य सुखदुःखानां भोगशक्तिप्रदः सदा। परमः पुरुषो विष्णुः सर्वकर्तापि सन् सदा॥
विशेषकर्ता केषाञ्चिदुक्तो यद्वद् विकुण्ठपः। उच्यते सर्वपालोऽपि विशेषेण स कर्मणा॥"
इति च।
परमेश्वरस्यैव सर्वकर्तृत्वेपि भोक्तृत्वदाने देव्या अल्पप्रवृत्तिरिति दर्शयितुं "उच्यते" इति स्थानद्वयेप्युक्तम्।
कर्तृत्वेऽपि स एव मुख्यहेतुः। तथापि भोक्तृत्वापेक्षया तस्या अधिकप्रवृत्तिरिति "कर्तृत्वे हेतुः प्रकृतिरुच्यते" इति, सर्वहेतुत्वेपि विष्णोः प्रकृतेः जीवं प्रति भोक्तृत्वदाने अल्पप्रवृत्तिरिति पुरुषो "भोक्तृत्वे हेतुरुच्यते" इति विशेषहेतोः एवमुच्यते। मुख्यतस्तु सर्वहेतुत्वं विष्णोरेवेति भावः ॥२१॥