Bhagavad Gīta Bhāshya and Tātparya
B.G 13.20
प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि। विकारांश्च गुणांश्चैव विद्धि प्रकृतिसम्भवान् ॥२०॥
Gīta Bhāshya 13.20
यतश्च यत् इति वक्तुं प्रकृतिविकारपुरुषान् सङ्क्षिप्याह- प्रकृतिं इति।
गुणाः सत्त्वादयः। तेषां अत्यल्पः विशेषः लयात् सर्गे इति विकाराः पृथगुक्ताः।
"कार्याकार्या गुणास्तिस्रः यतः स्वल्पोद्भवो जनौ॥"
इति माधुच्छन्दसशाखायाम् ॥२०॥
Gīta Tātparya 13.20
"प्रकृतिं पुरुषं च" इत्यत्र पुरुषशब्देन जीवपरयोः प्रकृतिशब्देन चेतनप्रकृत्योः स्वीकाराय "उभावपि" इति।
विकाराणां सत्वादीनां च उपादानत्वविवक्षया प्रकृति सम्भवत्वम्। स्वातन्त्र्यं तु परमेश्वरस्यैव। "उपद्रष्टानुमन्ता च" इत्यादिवक्ष्यमाणत्वात्।
गुणानां च विकारत्वेपि अधिकविकारत्वविवक्षया अन्येषां "विकारांश्च गुणांश्च" इति पृथगुक्तिः ॥२०॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2023, Incredible Wisdom.
All rights reserved.