B.G 13.22
पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान् गुणान्। कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु ॥२२॥
Gīta Tātparya 13.22
"पुरुषः प्रकृतिस्थः" इत्यत्र पुरुषशब्दो जीवे। उभयोरपि पुरुषशब्देन पूर्वं प्रस्तुतत्वात्। यथायोग्यं उपपत्तेः। कार्यकारणसम्बन्धं भोगं च मिथ्येति वदतां निराकरणायाह - पुरुषः प्रकृतिस्थो हि इति॥ हि इत्यनुभवविरोधं दर्शयति तेषाम्।
न हि ज्ञानाज्ञानसुखदुःखादिविषयस्य अन्तरानुभवस्य भ्रान्तित्वं क्वचिद् दृष्टम्। न च अस्य मिथ्यात्वे किञ्चित् मानम्। शरीरमारभ्यैव हि अपरोक्षभ्रमो दृष्टः। तत्रापि बलवत्प्रमाणविरोधादेव भ्रान्तित्वं कल्प्यम्। साक्षिसिद्धस्यापि भ्रान्तित्वाङ्गीकारे येन सर्वस्य भ्रान्तित्वमभ्रान्तित्वं आत्मनः अवगतं तदपि प्रमाणमात्मैव। व्यवहारतोपि अस्तीत्यत्र प्रमाणाभावात् भ्रान्तिरभ्रान्तिर्वा न किञ्चित् सिद्ध्यति।
अनुभवो भ्रान्त इत्युक्ते भ्रान्तित्वे प्रमाणं तत्प्रामाण्यं च कुतः सिद्ध्यात्। व्यवहारतः सर्वमङ्गीकुर्म इत्युक्ते व्यवहारो व्यवहर्ता च कुतः सिद्धः। प्रतीतित इत्युक्ते सैव कुतः। स्वतः इत्युक्ते स्वस्य भ्रान्तित्वे प्रतीतिं विनैव प्रतीतिरस्तीति भ्रान्तिः स्यात्।
स्वाभावोपि स्यात्। स्वयमस्तीति च भ्रमः स्यात्। निरालम्बनो भ्रमः नोपपद्यते इत्यस्यापि भ्रमत्वोपपत्तेः। तत्प्रमाणमपि अप्रमाणमेव। प्रमाणत्वभ्रम इति न किञ्चित् सिद्ध्यति। भ्रम इत्यस्यैव भ्रमत्वे अन्यस्य अभ्रमत्वमेव भवति।
सुखदुःखादिविषयं ज्ञानमात्मस्वरूपमेवेति तस्य भ्रमत्वे छद्मना विनैव शून्यवादो भवति। न हि वृत्तिज्ञानविषयमज्ञानादिकं तेषामपि। भ्रमस्य च अविद्याकार्यत्वाङ्गीकारात्। आत्मस्वरूपस्यापि अविद्याकार्यत्वं स्यात्।
दुर्घटत्वं भूषणमित्युक्ते दुर्घटत्वं सुघटत्वं च उभयं भूषणमस्माकमित्युत्तरम्। न हि प्रमाणसिद्धस्य दुर्घटत्वे सुघटत्वे वा वापवादो दृष्टः। दुर्घटत्वं भूषणमिति वदद्भिः आत्मनोऽपि अविद्यात्वमङ्गीकृत्य तदयुक्तमित्युक्ते तत्रापि भूषणत्वं किमिति नाङ्गीक्रियते। अतिसुकरत्वात्। न च आत्मनोऽपि अविद्यात्वं वदतां तेषामुत्तरम्। अतोऽनन्तदोषदुष्टत्वात् हि इति प्रसिद्ध्यैव भगवता निराकृताः ॥२२॥