Bhagavad Gīta Bhāshya and Tātparya
B.G 13.13
ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वाऽमृतमश्नुते। अनादिमत्परं ब्रह्म न सत्तन्नासदुच्यते ॥१३॥
Gīta Bhāshya 13.13
"परं ब्रह्म" इति "स च यः" इति प्रतिज्ञातमुच्यते। अन्यत् "यत्प्रभाव" इति। आदिमद्देहादिवर्जितं अनादिमत्। अन्यथा अनादि इत्येव स्यात् ॥१३, १४॥
Gīta Tātparya 13.13
अनादीत्युक्ते स्वयं कारणं न भवतीत्याशङ्का स्यादिति तन्निवृत्त्यर्थंमनादिमदित्याह।
"मुख्यतो गुणपूर्णत्वात् परं ब्रह्म जनार्दनः। मूर्तामूर्तव्यतीतत्वात् न सन्नैवासदुच्यते॥"
इति च।
"मूर्तं सदवगम्यत्वादज्ञेयत्वादसत् परम्। पुंसामर्थ्यादगम्यत्वात् सर्ववेदप्रसिद्धितः। विलक्षणः सदसतोर्भगवान् विष्णुरव्ययः॥"
इति च ॥१३॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2023, Incredible Wisdom.
All rights reserved.