B.G 13.08-12
अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम्। आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः ॥८॥
इंद्रियार्थेषु वैराग्यमनहङ्कार एव च। जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् ॥९॥
असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु। नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु ॥१०॥
मयि चानन्ययोगेन भक्तिरव्यभिचारिणी। विविक्तदेशसेवित्वमरतिर्जनसंसदि ॥११॥
अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम्। एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा ॥१२॥
Gīta Bhāshya 13.08-12
"स च यः", "यत्प्रभावश्च" इति वक्तुं तज्ज्ञानसाधनान्याह- अमानित्वमित्यादिना।
आत्माल्पत्वं ज्ञात्वापि महत्त्व प्रदर्शनं दम्भः -
"ज्ञात्वापि स्वात्मनोऽल्पत्वं डम्भो माहात्म्यदर्शनम्"
इति ह्यभिधानम् ।
आर्जवं मनोवाक्कायकर्मणां अवैपरीत्यम् ॥८,९॥
सक्तिः स्नेहः। स एवातिपक्व: अभिष्वङ्गः।
"स्नेहः सक्तिः स एवातिपक्वोऽभिष्वङ्ग उच्यते"
इति ह्यभिधानम् ॥१०,११॥
तत्त्वज्ञानार्थदर्शनम् अपरोक्षज्ञानार्थं शास्त्रदर्शनम् ॥१२॥
Gīta Tātparya 13.08-12
तत्त्वज्ञानविषयस्य विष्णोः। अपरोक्षदर्शनं तत्त्वज्ञानार्थदर्शनम्।
ज्ञायतेऽनेनेति ज्ञानम्, ज्ञप्तिर्ज्ञानमिति व्युत्पत्त्या "एतज्ज्ञानम्" इति ज्ञानसाधनं ज्ञानं चोक्तम् ॥१२॥