Bhagavad Gīta Bhāshya and Tātparya
B.G 9.18
गतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुहृत्। प्रभवः प्रलयः स्थानं निधानं बीजमव्ययम् ॥१८॥
Gīta Bhāshya 9.18
गम्यते मुमुक्षुभिः इति गतिः। तथाहि सामवेदे वासिष्ठशाखायाम्-
"अथ कस्मादुच्यते गतिरिति। ब्रह्मैव गतिः। तद्दि‍ गम्यते पापमुक्तैः॥"
इति।
साक्षादीक्षते इति साक्षी। तथाहि बाष्कलशाखायाम्-
"स साक्षादिदमद्राक्षीत् तत्‌ साक्षिणः साक्षित्वम्॥"
इति।
शरणं आश्रयः संसारभीतस्य।
"परमं यः परायणम्"
इति ह्युक्तम्।
"नारायणं महाज्ञेयं विश्वात्मानं परायणम्॥"
इति च।
संहारकाले प्रकृत्या जगदत्र निधीयते इति निधानम्।
तथाहि ऋग्वेदखिलेषु-
"अपश्यमप्यये मायया विश्वकर्मण्यदो जगन्निहितं शुभ्रचक्षुः॥"
इति ॥१८॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2023, Incredible Wisdom.
All rights reserved.