Bhagavad Gīta Bhāshya and Tātparya
B.G 9.10
मयाध्यक्षेण प्रकृतिः सूयते सचराचरम्। हेतुनानेन कौन्तेय जगद् विपरिवर्तते ॥१०॥
Gīta Bhāshya 9.10
उदासीनवदिति चेत् स्वयमेव प्रकृतिः सूयते। इत्यत आह - मया इति।
प्रकृतिसूतिद्रष्टा कर्ता अहमेव वेत्यर्थः। तथा च श्रुतिः -
"यतः प्रसूता जगतः प्रसूती तोयेन जीवान् व्यससर्ज भूम्याम्।"
इति ॥१०॥
Gīta Tātparya 9.10
"अध्यक्षोऽधिपतिः प्रोक्तो यदक्षाण्यस्य चोपरि।"
इति शब्दनिर्णये ॥१०॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2023, Incredible Wisdom.
All rights reserved.