B.G 7.19 (*)
बहूनां जन्मनामन्ते ज्ञानावान्मां प्रपद्यते ।
वासुदेवः सर्वमिति स महात्मा सुदुर्लभः॥१९ ॥
At the end of many lives, one attains wisdom and he reaches me knowing that Vasudeva (Krishna) is all supreme, the Absolute perfect being; such a great soul is very rare to find.
Gīta Bhāshya 7.19
बहूनां जन्मनामन्ते ज्ञानवान् भवति । तच्चोक्तं ब्राह्मे-
'जन्मभिर्बहुभिर्ज्ञात्वा ततो मां प्रतिपद्यते'' । इति ॥ १९ ॥
Gīta Tātparya 7.19
... अचेतनया तन्मेयत्वात्तु मायया ।
लक्ष्म्या वशगया लोको विष्णुनैव विमोहितः ।
ये तु विष्णुं प्रपद्यन्ते ते मायां (तु) तां तरन्ति हि ।
लक्ष्मीः सा जडमायाया देवता ते उभे अपि ।
विष्णोर्वशे ततोनन्यभक्त्या तं शरणं व्रजेत् ।
यादृशी तत्र भक्तिः स्यात् तादृश्यन्यत्र नैव चेत् ।
अनन्यभक्तिः सा ज्ञेया विष्णावेव तु सा भवेत् ।
अन्येषु वैष्णवत्वेन लक्ष्मीब्रह्महरादिषु ।
कुर्याद् भक्तिं नान्यथा तु तद्वशा एव ते यतः ।
एवं जानंस्तमाप्नोति नान्यथा तु कथञ्चन ।
पूर्णं वस्तु यतो ह्येको वासुदेवो नचापरः ।
एवंविद् दुर्लभो लोके यत् सर्वे मिश्रयाजिनः ॥ १३-१९ ॥