Bhagavad Gīta Bhāshya and Tātparya
B.G 7.19 (*)
बहूनां जन्मनामन्ते ज्ञानावान्मां प्रपद्यते । वासुदेवः सर्वमिति स महात्मा सुदुर्लभः॥१९ ॥
Gīta Bhāshya 7.19
बहूनां जन्मनामन्ते ज्ञानवान् भवति । तच्चोक्तं ब्राह्मे- 'जन्मभिर्बहुभिर्ज्ञात्वा ततो मां प्रतिपद्यते'' । इति ॥ १९ ॥
Gīta Tātparya 7.19
... अचेतनया तन्मेयत्वात्तु मायया । लक्ष्म्या वशगया लोको विष्णुनैव विमोहितः । ये तु विष्णुं प्रपद्यन्ते ते मायां (तु) तां तरन्ति हि । लक्ष्मीः सा जडमायाया देवता ते उभे अपि । विष्णोर्वशे ततोनन्यभक्त्या तं शरणं व्रजेत् । यादृशी तत्र भक्तिः स्यात् तादृश्यन्यत्र नैव चेत् । अनन्यभक्तिः सा ज्ञेया विष्णावेव तु सा भवेत् । अन्येषु वैष्णवत्वेन लक्ष्मीब्रह्महरादिषु । कुर्याद् भक्तिं नान्यथा तु तद्वशा एव ते यतः । एवं जानंस्तमाप्नोति नान्यथा तु कथञ्चन । पूर्णं वस्तु यतो ह्येको वासुदेवो नचापरः । एवंविद् दुर्लभो लोके यत् सर्वे मिश्रयाजिनः ॥ १३-१९ ॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2023, Incredible Wisdom.
All rights reserved.