Chapter Four - Nijapūrṇasukhā (चतुर्थोध्यायः - निजपूर्णसुखा)
निजपूर्णसुखामितबोधतनुः परशक्तिरनन्तगुणः परमः। अजरारमरणः सकलार्तिहरः कमलापतिरीड्यतमोवतु नः ॥१॥
~~~
यदसुप्तिगतोपि हरिः सुखवान् सुखरूपिणमाहुरतो निगमाः। स्वमतिप्रभवं जगदस्य यतः परबोधतनुं च ततः खपतिम् ॥२॥
~~~
बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः। सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥३॥
~~~
स्मरणे हि परेशितुरस्य विभोर्मलिनानि मनांसि कुतः करणम्। विमलं हि पदं परमं स्वरतं तरुणार्कसवर्णमजस्य हरेः ॥४॥
~~~
विमलैः श्रुतिशाणनिशाततमैः सुमनोसिभिराशु निहत्य दृढम्। बलिनं निजवैरिणमात्मतमोभिदमीशमनन्तमुपास्व हरिम् ॥५॥
~~~
स हि विश्वसृजो विभुशम्भुपुरन्दरसूर्यमुखानपरानमरान्। सृजतीड्यतमोवति हन्ति निजं पदमापयति प्रणतान्सुधिया ॥६॥
~~~
परमोपि रमेशितुरस्य समो न हि कश्चिदभून्न भविष्यति च। क्वचिदद्यतनोपि न पूर्णसदागणितेड्यगुणानुभवैकतनोः ॥७॥
~~~
इति देववरस्य हरेः स्तवनं कृतवान् मुनिरुत्तममादरतः। सुखतीर्थापदाभिहितः पठतस्तदिदं भवति ध्रुवमुच्चसुखम् ॥८॥
~~~
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते द्वादशस्तोत्रे चतुर्थोध्यायः।