Chapter Three - Kuru bhuṅkṣva ca (तृतीयोध्यायः - कुरु भुङ्क्ष्व च)
कुरु भुङ्क्ष्व च कर्म निजं नियतं हरिपादविनम्रधिया सततम्। हरिरेव परो हरिरेव गुरुः हरिरेव जगत्पितृमातृगतिः ॥१॥
~~~
न ततोस्त्परं जगतीड्यतमं परमात् परतः पुरुषोत्तमतः। तदलं बहुलोकविचिन्तनया प्रवणं कुरु मानसमीशपदे ॥२॥
~~~
यततोपि हरेः पदसंस्मरणे सकलं ह्यघमाशु लयं व्रजति। स्मरतस्तु विमुक्तिपदं परमं स्फुटमेष्यति तत्किमपाक्रियते ॥३॥
~~~
श?ृणुतामलसत्यवचः परमं शपथेरितमुच्छ्रितबाहुयुगम्। न हरेः परमो न हरेः सदृशः परमः स तु सर्वचिदात्मगणात् ॥४॥
~~~
यदि नाम परो न भवेत् स हरिः कथमस्य वशे जगदेतदभूत्। यदि नाम न तस्य वशे सकलं कथमेव तु नित्यसुखं न भवेत् ॥५॥
~~~
न कर्मविमामलकालगुणप्रभृतीशमचित्तनु तद्धि यतः। चिदचित्तनु सर्वमसौ तु हरिर्यमयेदिति वैदिकमस्ति वचः ॥६॥
~~~
व्यवहारभिदापि गुरोर्जगतां न तु चित्तगता स हि चोद्यपरम्। बहवः पुरुषाः पुरुषप्रवरो हरिरित्यवदत् स्वयमेव हरिः ॥७॥
~~~
चतुराननपूर्वविमुक्तगणा हरिमेत्य तु पूर्ववदेव सदा। नियतोच्चविनीचतयैव निजां स्थितिमापुरिति स्म परं वचनम् ॥८॥
~~~
आनन्दतीर्थसन्नाम्ना पूर्णप्रज्ञाभिधायुजा। कृतं हर्यष्टकं भक्त्या पठतः प्रियते हरिः ॥९॥
~~~
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते द्वादशस्तोत्रे तृतीयोध्यायः।