Chapter Two - Sujanōdadhisaṁvr̥ddhi (द्वितीयोध्यायः - सुजनोदधिसंवृद्धि)
सुजनोदधिसंवृद्धिपूर्णचन्द्रो गुणार्णवः। अमन्दानन्दसान्द्रो नः प्रीयतामिन्दिरापतिः ॥१॥
~~~
रमाचकोरीविधवे दुष्टदर्पोदवह्नये। सत्पान्थजनगेहाय नमो नारायणाय ते ॥२॥
~~~
चिदचिद्भेदमखलिं विधायादाय भुञ्जते। अव्याकृतगृहस्थाय रमाप्रणयिने नमः ॥३॥
~~~
अमन्दागुणसारोपि मन्दहासेन वीक्षितः। नित्यमिन्दिरयानन्दसान्द्रो यो नौमि तं हरिम् ॥४॥
~~~
वशी वशे न कस्यापि योजितो विजिताखिलः। सर्वकर्ता न क्रियते तं नमामि रमापतिम् ॥५॥
~~~
अगुणाय गुणोद्रेकस्वरूपायादिकारिणे। विदारितारिसङ्घाय वासुदेवाय ते नमः ॥६॥
~~~
आदिदेवाय देवानां पतये सादितारये। अनाद्यज्ञानपाराय नमो वरवराय ते ॥७॥
~~~
अजाय जनयित्रेस्य विजिताखलिदानव। अजादिपूज्यपादाय नमस्ते गरुडध्वज ॥८॥
~~~
इन्दिरामन्दसान्द्राग्य्रकटाक्षप्रेक्षितात्मने। अस्मदिष्टैककार्याय पूर्णाय हरये नमः ॥९॥
~~~
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते द्वादशस्तोत्रे द्वितीयोध्यायः।