Brahmasūtrabhāṣyam (ब्रह्मसूत्रभाष्यम्)
B.S 1.01.01
ॐ॥ अथातो ब्रह्मजिज्ञासा ॥ॐ ॥१-१-१॥
Brahma Sutra Bhāshya 1.1.1
अथऽ शब्दो मङ्गलार्थः अधिकारानन्तर्यार्थश्च। अतः शब्दो हेत्वर्थः।
उक्तं च स्काङदे –
"अथातः शब्दपूर्वाणि सूत्राणि निखिलान्यपि। प्रारभन्ते नियत्यैव तत् किमत्र नियामकम्॥
कश्चार्थश्च तयोर्विद्वन् कथमुत्तमता तयोः। एतदाख्याहि मे ब्रह्मन् यथा ज्ञास्यामि तत्त्वतः॥
एवमुक्तो नारदेन ब्रह्मा प्रोवाच सत्तमः। आनन्तर्येऽधिकारस्य मङ्गलार्थे तथैव च॥
अतशब्दः त्वतः शब्दो हेत्वर्थे समुदीरितः। परस्य ब्रह्मणो विष्णोः प्रसादादिति वा भवेत्॥
स हि सर्वमनोवृत्ति प्रेरकः समुदाहृतः। सिसृक्षोः परमाद्विष्णोः प्रथमं द्वौ विनिःसृतौ॥
ओङ्कारश्चाथशब्दश्च तस्मात् प्राथमिकौ क्रमात्। तद्धेतुत्वं वदंश्चापि तृतीयोऽत उदाहृतः॥
अकारः सर्ववागात्मा परब्रह्माभिधायकः। तथौ प्राणात्मकौ प्रोक्तौ व्याप्तिस्थितिविधायकौ॥
अतश्च पूर्वमुच्चार्याः सर्व एते सतां मताः। अथातः शब्दयोरेवं वीर्यमाज्ञाय तत्त्वतः। सूत्रेषु तु महाप्राज्ञाः तावेवादौ प्रयुञ्जते॥"
इति॥
अधिकारश्चोक्तो भागवततन्त्रे –
"मन्दमध्यमोत्तमत्वेन त्रिविधा ह्यधिकारिणः। तत्र मन्दा मनुष्येषु य उत्तमगणा मताः॥
मध्यमा ऋषिगन्धर्वा देवास्तत्रोत्तमा मताः। इति जातिकृतो भेदः तथाऽन्यो गुणपूर्वकः॥
भक्तिमान् परमे विष्णौ यस्त्वध्ययनवान् नरः। अधमः शमादि संयुक्तो मध्यमः समुदाहृतः॥
आब्रह्मस्तम्बपर्यन्तं असारं चाप्यनित्यकम्। विज्ञाय जातवैराग्यः विष्णुपादैकसंश्रयः॥ स उत्तमोऽधिकारी स्यात् सन्न्यस्ताखिलकर्मवान्॥"
इति।
"अध्ययनमात्रवतः" (३.४.१२)
"नाविशेषात"(३.४.१३)
इति चोपरि।
"शान्तो दान्तः उपरत: तितिक्षुः समाहितो भूत्वाऽऽत्मन्येवाऽत्मानं पश्येत।" (ब्रु.उ ६.४.२३)
"परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदमायात्। नास्त्यकृतः कृतेन। तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत् समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम्॥" (मु.उ १.२.१०)
"यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वाम्।" (का.उ २.२३)
"यस्य देवे परा भक्तिः यथा देवे तथा गुरौ। तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः॥" (श्वे.उ ६.२३)
इत्यादि श्रुतिभ्यश्च ॥
व्योमसंहितायां च –
"अन्त्यजा अपि ये भक्ताः नामज्ञानाधिकारिणः। स्त्रीशूद्रब्रह्मबन्धूनां तन्त्रज्ञानेऽधिकारिता॥
एकदेशे परोक्ते तु न तु ग्रन्थपुरस्सरे। त्रैवर्णिकानां वेदोक्ते सम्यग् भक्तिमतां हरौ॥
आहुरप्युत्तमस्त्रीणां अधिकारं तु वैदिके। यथोर्वशी यमी चैव शच्याद्याश्च तथाऽपराः॥"
इति।
यतो नारायणप्रसादमृते न मोक्षः, न च ज्ञानं विनाऽत्यर्थप्रसादः, अतो ब्रह्मजिज्ञासाकर्तव्या।
"यत्रानवसरोऽन्यत्र पदं तत्र प्रतिष्ठितम्। वाक्यं वेति सतां नीतिः सावकाशे न तद्भवेत्॥"
इति ब्रुहत् संहितायाम्।
"तमेवं विद्वानमृत इह भवति। नान्यः पन्था अयनाय विद्यते॥"(तै.आ ३.१२)
"प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः।"(भ.गी ७.१७)
"यमेवैष वृणुते तेन लभ्यः।"(क.उ २.२३)
"आत्मावाऽरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निधिध्यासितव्यः॥"(ब्रु.उ ६.५.६)
इत्यादिश्रुतिस्मृतिभ्यः।
"कर्मणा त्वधमः प्रोक्तः प्रसादः श्रवणादिभिः। मध्यमो ज्ञानसम्पत्त्या प्रसादस्तूत्तमो मतः॥ प्रसादात् त्वधमाद् विष्णोः स्वर्गलोकः प्रकीर्तितः। मध्यमाज्जनलोकादिः उत्तमस्त्वेव मुक्तिधः॥
श्रवणं मननं चैव ध्यानं भक्तिस्तथैव च। साधनं ज्ञानसम्पत्तौ प्रधानं नान्यदिष्यते॥ न चैतानि विना कश्चित् ज्ञानमाप कुतश्चन॥"
इति नारदीये।
ब्रह्मशब्दश्च विष्ण्वावेव –
"यमन्तः समुद्रे कवयोऽवयन्ति तदक्षरे परमे प्रजाः। यतः प्रसूता जगतः प्रसूती तोयेन जीवान् व्यससर्ज भूम्याम्"
इत्युक्त्वा
"तदेवर्तं तदु सत्यमाहुः तदेव ब्रह्म परमं कवीनाम्"(म.ना.उ १.३.६)
इति हि शृतिः॥
"तन्नो विष्णुः" इति वचनात् विष्णुरेव हि तत्रोच्यते। न चेतरशब्दात् तत्प्राप्तिः।
"नामानि विश्वाभि न सन्ति लोके यदाविरासीदनृतस्य सर्वम्। नामानि सर्वाणि यमाविशन्ति तं वै विष्णुं परममुदाहरन्ति॥"
इति भाल्लवेयश्रुतिः।
"यो देवानां नामधा एक एव तं सम्प्रश्नं भुवना यन्त्यन्या"(ऋ.सं १०.८२.३)
इत्येवशब्दात् नान्येषां सर्वनामता।
"अजस्य नाभावध्येकमर्पितं यस्मिन् विश्वानि भुवनानि तस्थुः॥"(ऋ.सं १०.८२.६)
इति विष्णोर्हि लिङ्गम्। न च प्रसिद्धार्थं विना अन्योऽर्थः युज्यते।
"अजस्य नाभाविति यस्य नाभेरभूत् श्रुतेः पुष्करं लोकसारम्। तस्मै नमो व्यस्तसमस्तविश्वविभूतये विष्णवे लोककर्त्रे॥"
इति स्कान्दे।
"परो दिवा पर एना पृथिव्या॥"(ऋ.सं १०.८२.५)
इति समाख्याश्रुतौ॥
"यं कामये तं तमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधाम्"(ऋ.सं १०.१२५.५)
इत्युक्त्वा
"मम योनिरप्स्वन्तः समुद्रे॥"(ऋ.सं १०.१२५.५-७)
इत्याह। उग्रो रुद्रः। समुद्रेऽन्तर्नारायणः।
प्रसिद्धत्वात् सूचितत्वाच्चास्यार्थस्य। न चाविरोधे प्रसिद्धः परित्यज्यते। उक्तान्यायेन च श्रुतयः एतमेव वदन्ति।
"वेदे रामायणे चैव पुराणे भारते तथा। आदावन्ते च मध्ये च विष्णुः सर्वत्र गीयते॥"
इति हरिवंशेषु।
न च इतरग्रन्थविरोधः।
"एषं मोहं सृजाम्याशु यो जनान् मोहयिष्यति। त्वं च रुद्र महाबाहो मोहशास्त्राणि कारय॥
अतथ्यानि वितथ्यानि दर्शयस्व महाभुज। प्रकाशं कुरु चात्मानं अप्रकाशं च मां कुरु॥"
इति वाराह वचनात्।
शैव च स्कान्दे –
"श्वपचादपि कष्टत्वं ब्रह्मेशानादयः सुराः। तदैवाच्युत यान्त्येव यदैव त्वं पराङ्मखः॥"
इति।
ब्राह्मे च ब्रह्मवैवर्ते –
"नाहं न च शिवोऽन्ये च तच्छक्त्येकांशभागिनः। बालः क्रीडनकैर्यद्वत् क्रीडतेऽस्माभिरच्युतः॥"
इति।
न च वैष्णवेषु तथा। तच्च "एष मोहम्" इत्युक्तम्॥
॥ इति जिज्ञासाधिकरणम् ॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Source and Copyright: The Sanskrit works of Madhvacharya reproduced here are ancient public-domain texts. Digital Sanskrit sources are acknowledged wherever applicable. The English translations, explanatory notes and original editorial material on madhva.in are © Madhukrishna Sudhindra, unless otherwise indicated.