Introduction
नारायणं गुणैः सर्वैरुदीर्णं दोषवर्जितम्। ज्ञेयं गम्यं गुरूंश्चापि नत्वा सूत्रार्थ उच्यते॥
द्वापरे सर्वत्र ज्ञान आकुलीभूते तन्निर्णयाय ब्रह्मरुद्रेन्द्रादिभिः अर्थितः भगवान् नारायणः व्यासत्वेनावततार।
अथ इष्टानिष्टप्राप्तिपरिहारेच्छूनां तद्योगम् अविजानतां तज्ज्ञापनार्थं वेदम् उत्सन्नं व्यञ्जयन् चतुर्धा व्यभजत्। चतुर्विंशतिधा एकशतधा सहस्रधा द्वादशधा च।
तदर्थनिर्णयाय ब्रह्मसूत्राणि चकार।
तच्चोक्तं स्कान्दे –
"नारायणाद्विनिष्पन्नं ज्ञानं कृतयुगे स्थितम्। किञ्चित् तदन्यथा जातं त्रेतायां द्वापरेऽखिलम्॥
गौतमस्य ऋषेः शापात् ज्ञाने त्वज्ञानतां गते। सङ्कीर्णबुद्धयो देवा ब्रह्मरुद्रपुरस्सराः॥
शरण्यं शरणं जग्मुः नारायणमनामयम्। तैर्विज्ञापितकार्यस्तु भगवान् पुरुषोत्तमः॥
अवतीर्णो महायोगी सत्यवत्यां पराशरात्। उत्सन्नान् भगवान् वेदान् उज्जहार हरिः स्वयम्॥
चतुर्धा व्यभजत् तांश्च चतुर्विंशतिधा पुनः। शतधा चैकधा चैव तथैव च सहस्रधा॥
कृष्णो द्वादशधा चैव पुनस्तस्यार्थवित्तये। चकार ब्रह्मसूत्राणि येषां सूत्रत्वमञ्जसा॥
अल्पाक्षरमसन्दिग्धं सारवद्विश्वतोमुखम्। अस्तोभमनवद्यं च सूत्रं सूत्रविदो विदुः॥
निर्विशेषितसूत्रत्वं ब्रह्मसूत्रस्य चाप्यतः। यथा व्यासत्वमेकस्य कृष्णस्यान्ये विशेषणात्॥ सविशेषतसूत्राणि ह्यपराणि विदो विदुः। मुख्यस्य निर्विशेषेण शब्दोऽन्येषां विशेषतः॥ इति वेदविदः प्राहुः शब्दतत्त्वार्थवेदिनः। सूत्रेषु येषु सर्वेऽपि निर्णयाः समुदीरिताः॥
शब्दजातस्य सर्वस्य यत्प्रमाणश्च निर्णयः। एवं विधानि सूत्राणि कृत्वा व्यासो महायशाः॥
ब्रह्मरुद्रादिदेवेषु मनुष्यपितृपक्षिषु। ज्ञानं संस्थाप्य भगवान् क्रीडते पुरुषोत्तमः॥"
इत्यादि।