Viṣṇutattvanirṇayaḥ - (विष्णुतत्त्वनिर्णयः)
Third Section (तृतीयः परिच्छेदः)
ॐ॥
“वर्जितः सर्वदोषैर्यो गुणसर्वस्वमूर्तिमान्। स्वतन्त्रो यद्वशाः सर्वे स विष्णुः परमो मतः॥”
इति परमोपनिषदि।
“नित्यपूर्णाखिलगुणो निर्दोषः सर्वदैव यः। यः स्वतन्त्रः परो विष्णुर्जन्ममृत्यादिवर्जितः॥
नारद उवाच-निर्दोषश्चेत् कथं विष्णुर्मानुषेषूदपद्यत। चिन्ताश्रमव्रणाज्ञानदुःखयुग् दृश्यते कथम्। एष मे संशयो ब्रह्मन् हृदि शल्य इवार्पितः। अनुद्धार्योऽपरैर्मर्त्यैः सूक्तिशक्त्या तमुद्धर॥
ब्रह्मोवाच- स्त्रीपुम्मलाभियोगात्मा देहो विष्णोर्न जायते। किन्तु निर्दोषचैतन्यसुखां नित्यां स्वकां तनुम्। प्रकाशयति सैवेयं जनिर्विष्णोर्नचापरा। तथाऽप्यसुरमोहाय परेषां च क्वचित्क्वचित्। दुःखाज्ञानश्रमादीन् स दर्शयेच्छुद्धसद्गुणः॥
क्व व्रणादि क्वचाज्ञानंस्वातन्त्र्यान्नित्यसद्गुणे। दौर्लभ्यायैव मोक्षस्यदर्शयन् परमो हरिः॥
मिथ्यादर्शनदोषेण तेन मुक्तिं न यान्ति च। तमो यान्ति च तेनैव तस्माद् दोषविवर्जितम्। प्रादुर्भावगतं चैव जानीयाद् विष्णुमञ्जसा॥”
इति ब्रह्माण्डे।
“गुणक्रियादयो विष्णोः स्वरूपं नान्यदिष्यते। अतो मिथोऽपि भेदो न तेषां कश्चित् कदाचन। स्वरूपेऽपि विशेषोऽस्ति स्वरूपत्ववदेव तु। भेदाभावेऽपि तेनैव व्यवहारश्च सर्वतः॥”
इति परमोपनिषदि।
“अभिन्नत्वमभेदश्च यथा भेदविवर्जितम्। व्यवहार्यं पृथक् चस्यादेवमेव गुणाः हरेः। अभेदाभिन्नयोर्भेदो यदि वा भेदभिन्नयोः। अनवस्थितिरेव स्यान्न विशेषणतामतिः। मूलसम्बन्धमज्ञात्वा तस्मादेकमनन्तधा। व्यवहार्यं विशेषेण दुस्तर्कबलतो हरेः। विशेषोऽपि स्वरूपं स स्वनिर्वाहकताऽस्य च॥”
इति ब्रह्मतर्के।
“एकमेवाद्वितीयं तत्” - छान्दोग्योपनिषत् ६/२/१
“नेह नानास्ति किञ्चन। मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति” - बृहदारण्कोपनिषत् ६/४/१९
“यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति। एवं धर्मान् पृथक् पश्यंस्तानेवानु विधावति॥” - काठकोपनिषत् २/१/१४
इत्यादिश्रुतेश्च।
“देशः सर्वत्र पुरुषः स्वतन्त्रः कालनित्यता। इत्यादिषुस्वसम्बन्धाद् यथैवं गुणरूपिणः॥गुणित्वं गुणभोक्तृत्वं स्याद् विष्णोस्तच्च स स्वयम्॥”
इति ब्रह्मतर्के।
“विष्णुं सर्वगुणैः पूर्णं ज्ञात्वा संसारवर्जितः। निर्दुःखानन्दभुङ् नित्यं तत्समीपे स मोदते॥मुक्तानां चाश्रयो विष्णुरधिकोऽधिपतिस्तथा। तद्वशा एव ते सर्वे सर्वदैव स ईश्वरः॥”
इति परमश्रुतिः।
“अमृतस्यैष सेतुः” - आथर्वणोपनिषत् २/२/६
“सोऽश्नुते सर्वान् कामान् सहब्रह्मणा विपश्चिता” - तैत्तिरीयोपनिषत् २/१
इत्यादि च।
“नृपाद्याः शतधृत्यन्ता मुक्तिगा उत्तरोत्तरम्। गुणैः सर्वैः शतगुणा मोदन्त इति हि श्रुतिः॥”
इति पाद्मे।
अतो निःशेषदोषवर्जितः पूर्णानन्तगुणो नारायण इति सिद्धम्।
यस्य त्रीण्युदितानि वेदवचने रूपाणि दिव्यान्यलंबट् तद्दर्शतमित्थमेव निहितं देवस्य भर्गो महत्। वायो रामवचोनयं प्रथमकं पृक्षो द्वितीयं वपु-र्मध्वो यत्तु तृतीयमेतदमुना ग्रन्थः कृतः केशवे॥
स्वतन्त्रायाखिलेशाय निर्दोषगुणरूपिणे। प्रेयसे मे सुपूर्णाय नमो नारायणाय ते॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्विष्णुतत्त्वनिर्णये तृतीयः परिच्छेदः सम्पूर्णः॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Source and Copyright: The Sanskrit works of Madhvacharya reproduced here are ancient public-domain texts. Digital Sanskrit sources are acknowledged wherever applicable. The English translations, explanatory notes and original editorial material on madhva.in are © Madhukrishna Sudhindra, unless otherwise indicated.