Tattvōdyōtam (तत्त्वोद्योतः)
तत्त्वोद्योतम्
सर्वत्राखिलसच्छक्तिः स्वतन्त्रोऽशेषदर्शनः।
नित्यातादृशचिच्चेत्ययन्तेष्टो नो रमापतिः
विमतो भिन्नो मुक्तत्वात्, यदित्थं तत्तथा, यथा सम्प्रतिपन्नः। न च भेदे विकल्पो युज्यते । अनिर्वचनीयस्य सर्वत्राप्रसिद्धत्वादेव । शशविषाणं गोविषाणं वोच्यते इतिवत्। न चानिर्वचनीये किञ्चिन्मानम् । मिथ्याशब्दोऽनिर्वचनीयं वदतीत्यत्र च । अनुमानस्य चाप्रसिद्धविशेषणः पक्षः । न च धूमत्ववत् मिथ्यात्वमित्युभयसम्प्रतिपन्नं सामान्यमस्ति । न च बाष्पारोपितधूमेन धूमवत्त्वं व्यभिचरति ।
न च भावाभावविलक्षणं क्वचिदागमो वक्ति ।
‘नासदासीन्नो सदासीत् तदानीं नासीद्रजो नो व्योमापरो यत्’ (ऋ.१०.१२९.१)
इत्यत्र च ।
पारिशेष्येणानिर्वचनीयत्वाङ्गीकारे
‘आनीदवातं स्वधया तदेकम्’ (ऋ.१०.१२९.२)
इति तदानीं परिशिष्टत्वाद् ब्रह्मण एवानिर्वचनीयत्वं स्यात् ।
‘मूर्तं सदिति सम्प्रोक्तम् अमूर्तमसदुच्यते । मूर्तामूर्तेतरद्ब्रह्म न सत्तन्नासदुच्यते ॥’
इति पैङ्गिश्रुतिः ।
‘यदन्यद्वायोश्चान्तरिक्षाच्चैतत्सत्’
इति माध्यन्दिनश्रुतिः।
‘अद्भुतत्वादनिर्वाच्यं ब्रह्म चिच्चेत्यमेव च । अचिन्त्यं तत एवैतद् अतर्क्याज्ञेयमेव च ॥ ऋगतावितिधातोस्तु पूर्वावगतवत् सदा ।स्थितेः "ब्रह्मर्तम्" इत्युक्तमनृतं परिणामतः ॥’
‘प्रकृतिप्राकृतं प्रोक्तम् असत्तदशुभत्वतः । असतां बुद्धिगम्यत्वाद् असत्यमिति चोच्यते ॥ नियमेन बहिश्चित्तास्तेसन्तो ब्रह्मणि स्थिताः । विश्वं सत्यं वशे विष्णोः नित्यमेव प्रवाहतः ॥ न क्वाप्यनीदृशं विश्वं तत्तत्कालानुसारतः । असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् ॥ त आसुरा स्वयं नष्टा जगतः क्षयकारिणः ॥’
इत्यादि व्यासस्मृतौ ।
‘असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् । अपरस्परसम्भूतं किमन्यत् कामहैतुकम् ॥ एतां दृष्टिमवष्टभ्य नष्टात्मानोल्पबुद्धयः । प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः ॥’ (भ.गी.१६.८,९)
इत्यादि च गीतासु ।
‘विश्वं सत्यं मघवाना युवोरिदापश्च न प्रमिनन्ति व्रतं वाम् ।’ (ऋ.सं.२.२४.१२)
‘प्रघान्वस्य महतो महानि सत्या सत्यस्य करणानि वोचम्’ (ऋ.सं.२.१५.१)
‘सत्यः सो अस्य महिमा गृणे शवो यज्ञेषु विप्ररातज्ये’ (ऋ.सं.८.३.४)
‘कविर्मनीषी परिभूः स्वयम्भूर्याथातथ्यतोऽर्थान् व्यदधात् शाश्वतीभ्यः समाभ्यः’ (ईशावास्य.८)
इत्यादि श्रुतिभ्यश्च ।
न चार्थापत्त्यानिर्वचनीयसिद्धिः । असतः प्रतीतिं विना सद्वैलक्षण्यज्ञानानुपपत्तेः। न च
‘बाध्यं जगद्’
इत्यत्र किञ्चिन्मानम्।
बाध्यत्वमपि हि तेषां मिथ्या । तस्य च मिथ्यात्वेऽबाध्यत्वमेव सत्यं स्यात् ।
सद्विलक्षणत्वं च सज्जातिविलक्षणत्वम्, सन्मात्रविलक्षणत्वं वा । जात्यङ्गीकारे सद्बहुत्वम् । सन्मात्रविलक्षणत्वं चेत् सिद्धसाधनता । ब्रह्मवैलक्षण्याङ्गीकारात् ।
न च कयापि युक्त्या मानेन वा भेदनिराकरणं भवति । अङ्गीक्रियमाणत्वात् । अनिर्वचनीयासिद्धेश्च । सद्विलक्षणत्वमसद्विलक्षणत्वं च मिथ्येत्यविलक्षणत्वमेव सत्यं स्यात् । एवमेव हेत्वादिष्वपि विकल्पो निराकरणीयः । दृश्यत्वानुमानेष्वपि एते एव दोषाः । आत्मनोऽपि दृश्यत्वादनैकान्तिकता च । न चात्मनो दृक्कर्मत्वं विना तज्ज्ञानत्वम् । तदज्ञाननिवृत्तिश्च तेन भवति । न च तदाकारम् । अतद्विषयत्वादेव । तद्विषयत्वमेव हि तदाकारत्वम् । न हि ज्ञानज्ञेययोरेकाऽकारता । न ह्यज्ञानस्य घटाश्रयत्वं ब्रह्माश्रयत्वं वाऽस्ति । पुङ्गतमेव हि तमः ज्ञानेन निवर्तते । विषयाऽश्रयं चेदज्ञानं निवर्तते तर्ह्येकेन ज्ञातस्य घटस्यान्यैरज्ञातत्वं न स्यात् । अतद्विषयज्ञानेन तदज्ञाननिवृत्तौ घटज्ञानेनापि निवर्तेत । अविषयत्वादेव तस्य ज्ञानत्वं न स्याद् घटवत् ।
जडत्वं चाप्रमातृत्वमेव । न च प्रमातृत्वमात्मनस्तैरङ्गीक्रियते । अतस्तदप्यनैकान्तिकम् । मिथ्याप्रमातृत्वं चानिर्वचनीयनिरासादेव निरस्तम् । यदि जडत्वं नामाप्रकाशत्वं तदप्यात्मनः स्वविषयप्रकाशत्वाभावात् परविषयप्रकाशत्वाभावाच्च अनैकान्तिकमेव । स्वविषयत्वं हि कर्तृकर्मविरोधात् तैर्नाङ्गीक्रियते । मिथ्याभूतपरविषयत्वं चानिर्वचनीयनिरासादेव निरस्तम् । विषयवर्जितः प्रकाश एव न भवति घटवत् । तत्प्रमाणाभावात् ।
देशतः कालतः परिच्छिन्नत्वं प्रकृतिकालादिष्वभावात् भागासिद्धम् । वस्तुतः परिच्छिन्नत्वमात्मनोऽपि भेदाङ्गीकारादनैकान्तिकम् ।
प्रत्यक्षबाधितञ्च जगन्मिथ्यात्वम् । सदिति प्रतीयमानत्वात् । न च प्रत्यक्षसिद्धमन्येन केनापि बाध्यं दृष्टम् । चन्द्रप्रादेशत्वादिविषयं तु दूरस्थत्वादिदोषयुक्तत्वात् अपटु । न च जगत्प्रत्यक्षस्यापटुत्वे किञ्चिन्मानम् । न च जगतोऽज्ञानजन्यत्वे किञ्चिन्मानम् ।
‘न च मायाविना माया दृश्यते विश्वमीश्वरः । सदा पश्यति तेनेदं न मायेत्यवधार्यताम् ॥ अपरोक्षदृशो मिथ्यादर्शनं न क्वचिद्भवेत् । सर्वापरोक्षविद्विष्णुर्विश्वदृक्तन्न तन्मृषा ॥’
इति ब्रह्माण्डे ॥
‘ईशोनीशो जगन्मिथ्या न पूज्यो गुरुरित्यपि । एक आत्मा परब्रह्मभावो मुक्तिरिति ह्यपि ॥ एवमादि विरुद्धानि वचनान्यथ युक्तयः । प्रमाणैर्बहुभिः ज्ञेया आभासा इति वैदिकैः ॥ वेदवेदानुसारेषु विरोधेन्यार्थकल्पना । इतराणि विरुद्धानि प्रलम्भभ्रमजान्यपि ॥’
इति व्यासस्मृतिः ॥
‘नासतो दृष्टत्वात्’ (ब्रह्मसूत्रम् - २.२.२६),
‘नाभाव उपलब्धेः’ (ब्रह्मसूत्रम् -२.२.२८),
‘वैधर्म्याच्च न स्वप्नादिवत्’ (ब्रह्मसूत्रम् - २.२.२९)
इत्यादि भगवद्वचनेनापि निरस्ताः ।
न च शून्यवादिसकाशात् वैलक्षण्यं मायावादिनः । व्यावहारिकसत्त्वस्य तेनाप्यङ्गीकारात् ।
‘सत्यं तु द्विविधं प्रोक्तं सांवृतं पारमार्थिकम् । सांवृतं व्यावहार्यं स्यान्निवृत्तौ पारमार्थिकम् ॥ विचार्यमाणे नो सत्त्वं सत्त्वं चापि प्रतीयते । यस्य तत्सांवृतं ज्ञेयं व्यवहारपदञ्च यत् ॥’
इत्यादिना ।
न च निर्विशेषब्रह्मवादिनः शून्यात् कश्चित् विशेषस्तस्य ।
‘निर्विशेषं स्वयं भातं निर्लेपमजरामरम् । शून्यं तत्त्वम् अविज्ञेयं मनोवाचामगोचरम् ॥ जाड्यसंवृतिदुःखान्तपूर्वदोषविरोधि यत् । नित्यभावनया भातं तद्भावं योगिनं नयेत् ॥ भावार्थप्रतियोगित्वं भावत्वं वा न तत्त्वतः । विश्वाकारं च संवृत्त्या यस्य तत्पदमक्षयम् ॥’
इत्यादि तद्वचः ।
‘अनृतजडविरोधिरूपमन्तत्रयमलबन्धनदुःखताविरुद्धम्’
इति च मायावादी
‘नास्य सत्त्वमसत्त्वं वा न दोषो गुण एव वा । हेयोपादेयरहितं तच्छून्यं पदमक्षयम् ॥’
इति च शून्यवादी ।
सत्त्वादयो धर्माः परमार्थतो मायावादिनाऽपि नाङ्गीक्रियन्ते । सर्वविशेषविनिर्मुक्तत्वाङ्गीकारात् ।
‘अवाच्यं सर्वशब्दैस्तल्लक्ष्यते चाखिलैः पदैः । अज्ञेयं ज्ञानलक्ष्यं च तच्छून्यं पदमक्षयम् ॥’
इति च शून्यवादी ।
न चाखण्डत्वेन कश्चिद्विशेषः ।
‘यदखण्डपदं लक्ष्यं सर्वैरपि विशेषणैः । सर्वैर्विशेषणैर्मुक्तं तच्छून्यं पदमक्षयम् ॥’
इति च शून्यवादी ।
एवमेव मायावादिराद्धान्तः । न च मायावादिनो भावत्वं नाम धर्मः । न च शून्यवादिनः शून्यत्वं नाम धर्मः ।
‘मय्यनन्तगुणेनन्ते गुणतोनन्तविग्रहे । यदासीत् तत एवाद्यः स्वयम्भूः समभूदजः ॥’ (भाग.६.४.४८)
‘उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः । यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः’ (भ.गी.२४.१७)
इति भगवद्राद्धान्तः ।
‘पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च’ (श्वेत.उ.६.८)
इत्यादि श्रुतिः ।
प्रकृष्टप्रकाशश्चन्द्रः इत्यादिषु प्रकृष्टत्वादिविशेषणानि सन्त्येवेति न तत्साम्यम् । अनित्यदेशकालसम्बन्धित्वस्य सत्त्वात्, न
‘सोऽयं देवदत्तः’
इत्याद्युपमा च । देवदत्तादिस्वरूपमात्रस्य सिद्धत्वान्न स्वरूपमात्रे प्रश्नः । नक्षत्राऽदिव्यतिरेकमात्रस्यापि सिद्धत्वान्न व्यतिरेकमात्रे । अन्यथा प्रश्नस्यैवासम्भवात् । अतः
‘कैर्विशेषणैर्विशिष्टः?’
इति प्रश्ने
‘प्रकृष्टप्रकाशतद्देशकालादिविशिष्ट’
एव वाक्यार्थः । अङ्गीक्रियमाणत्वाद्विशिष्टादेः, अनिर्वचनीयाभावाच्च सत्यत्वञ्च सिद्धम् ।
दृष्टस्य वस्तुनो बलवद्दृष्टिं विना नान्यद्बाधकमिति दुर्घटत्वे सुघटत्वे वा नानिर्वचनीयसिद्धिः । सर्ववैलक्षण्याङ्गीकारात् दुर्घटमपि ब्रह्म प्रमाणादङ्गीक्रियत एव । जगतो भिन्नमभिन्नम्, भिन्नाभिन्नं वा इत्यादिविकल्पस्तत्रापि युज्यते । भिन्नं चेद्भेदादिविशिष्टाच्छुद्धं भिन्नमभिन्नं वा इत्याद्यनवस्था । अभिन्नं चेन्मिथ्यारूपेण जगता ब्रह्मापि मिथ्यैव स्यात् । भिन्नाभिन्नं चेद्दोषद्वयमपि । उभयविलक्षणं चेदनिर्वचनीयत्वं ब्रह्मण एवापतितम् । यद्येवमपि नानिर्वचनीयत्वं ब्रह्मणस्तर्हि जगतोऽपि न स्यात् ।
‘विश्वं सत्यम्’
इत्यादिवचनमत्राप्युक्तम् ।
‘न सत्तन्नासदुच्यते’,
‘असद्वा इदमग्र आसीत्’,
‘नासदासीन्नो सदासीत् तदानीम्’
इत्यादि ब्रह्मणोऽपि मिथ्यात्वे प्रमाणमस्ति ।
न हि दृष्टेर्बलवत् किञ्चित्प्रमाणम् । न हि युक्तिपराजितोऽपि क्षुधितो नान्नमत्ति । बलवद्दृष्ट्यबाधे । न चान्नत्वे दुर्घटे तस्यानन्नत्वं भवति । दृष्ट्यबाधितदृष्टस्य । न चान्नानन्नवैलक्षण्यमनुभूयते । न च तथा व्यवहारः । न च तत्र किञ्चिन्मानम् । अतो विशिष्टादिनिराकरणयुक्तीनामपि विशिष्टाद्यपेक्षत्वात् जात्युत्तरमिति न युक्तिबाधाऽपि । अतो निखिलगुणगणाढ्यमेव ब्रह्म श्रुत्यभिप्रेतम् ।
अनिर्वचनीयासिद्धेरेवानुमानस्याप्यसिद्धिः । वाचारम्भणं विविधप्रकारः । नाम धेयम् नित्यं धार्यं नाम मृत्तिकेत्यादि वैदिकमेव इत्येतद् वचनं सत्यमिति श्रुत्यर्थः। अनित्यत्वात् साङ्केतिकं नामाप्रधानं नित्यत्वात् मृत्तिकादिनामैव प्रधानम् । प्रधानज्ञानादप्रधानं ज्ञातार्थमिव भवति । एवं प्रधानस्य परमात्मनो ज्ञानादप्रधानं ज्ञातमिव भवति । प्राधान्यज्ञापनार्थमेव सृष्ट्यादिकथनम् ।
‘यथा सोम्य’
इत्याद्यपि सादृश्यकथनम् । न चैकनखनिकृन्तनविकारः सर्वकार्ष्ण्यायसम् । प्रधानपुरुषज्ञानाद्
‘ग्रामो ज्ञातः’
इति व्यपदेशोऽस्ति ।
न हि सत्यज्ञानेन मिथ्याज्ञानं भवति । मुक्तामुक्तयोर्भेदाभावे मुक्तस्य संसारः संसारिणो वा मुक्तत्वं स्यात् । यद्यज्ञानकृतो भेदस्तर्हीश्वरस्याज्ञानाभावात् संसारिणैक्यं तेनानुभूयेत । ततश्च दुःखित्वं स्यात् ।
‘तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप ॥’ (भ.गी ४.५)
‘सुखं दुःखं भवोभावो भयं चाभयमेव च ॥ अहिंसा समता तुष्टिस्तपो दानं यशोऽयशः । भवन्ति भावा भूतानां मत्त एव पृथग्विधाः ॥’ (भ.गी १०.४,५ )
‘यस्माद् क्षरमतीतोहमक्षरादपि चोत्तमः । अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥’ (भ.गी १५.१८ )
इत्यादिनेश्वरेणापि भेदस्यैवानुभूयमानत्वाच्च ।
तत एवाभ्रान्तत्वान्न मुक्तस्यापि भेदनिवृत्तिः । न चोपाधिभेदमात्रेणेश्वरस्य दुःखाभावः । हस्तपादाद्युपाधिभेदेपि भोक्तुरेकत्वानुभवात् ।
‘उद्यतायुधदोर्दण्डाः पतितास्वशिरोक्षिभिः । पश्यन्तः पातयन्ति स्म कबन्धा अप्यरीन् युधि ॥’
इति भारतवचनान्न विश्लेषाद्विशेषः । अतोऽनौपाधिकत्वादेव भेदस्य न मुक्तस्येश्वरैक्यम् ।
‘इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः । सर्गेऽपि नोपजायन्ते प्रलये न व्यथयन्ति च ॥’ (भ.गी १४.२)
‘यदा पश्यः पश्यते रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम् । तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति ॥’ (आथर्वण.४.३.३)
इत्यादिमुक्तभेदवचनेभ्यश्च ।
एवं प्रत्यक्षानुमानागमविरुद्धत्वादभेदविषयवत् प्रतीयमानान्यपि वाक्यानि सादृश्याद्यर्थान्येव योजनीयानि ।
‘विरुद्धवत्प्रतीयन्त आगमा यत्र वै मिथः । तत्र दृष्टानुसारेण तेषामर्थोऽन्ववेक्ष्यते ॥’
इति ब्राह्मवचनाच्च ।
भेदाद्यनुभवस्य भ्रान्तित्वाङ्गीकारे तदपलापयुक्तेर्नितरां भ्रान्तित्वाद् भेदाद्यनुभवस्याभ्रान्तित्वमेव भवति । परस्परविरुद्धयोरन्यतरनिषेधस्य अन्यतरविधिनान्तरीयकत्वात् ।
एकजीववादपक्षे तन्निष्ठानां मृत्यनन्तरमपि विश्वस्यानिवृत्तत्वात् भेदनिष्ठ एवैकजीव इत्यापतति । तस्य च तत्रैवाग्रहान्न कदाचिद्भेदनिवृत्तिरित्यनिवृत्तिरेव भवति । न चैकजीवाज्ञानपरिकल्पितास्समस्ता इत्यत्र किञ्चिन्मानम् । अतो मुक्तेभ्योऽप्यन्य एव समस्तगुणपरिपूर्णो भगवान् विष्णुरिति सिद्धम् ।
‘ब्रह्मेशानादिभिर्देवैर्यत्प्राप्तुं नैव शक्यते । तद्यत्स्वभावः कैवल्यं स भवान् केवलो हरेः ॥’
‘परो मात्रया तन्वा वृधान न ते महित्वमन्वश्नुवन्ति ।’ (ऋ.सं.७.९९)
सत्यचिच्चेत्यपतये मुक्तामुक्तोत्तमाय ते । नमो नारायणायार्यवृन्दवन्दितपद्द्वय ॥
आनन्दतीर्थपुंसिहो मायावादिदितेः सुतान् । विदार्य युक्तिनखरैरप्रतीपोऽभिभासते ॥
पलायध्वं पलायध्वं त्वरया मायिदानवाः । सर्वज्ञहरिरायाति तर्कागमदरारिभृत् ॥
द्रवत द्रवताऽशु मायिनः प्रविशध्वमतन्द्रिता गुहाः । कमलारमणाम्बराश्रयः समुदेत्यखिलज्ञभास्करः ॥
नृहरिः सकलज्ञनामकः समुपैति हि मायिदानवान् । प्रपलायनमत्र तत्क्षमं त्वरया (वो) वसतिर्गुहासु च ॥
जयत्यानन्दतीर्थेष्टदेवता नरकेसरी । विपाटिताज्ञानतमःकपाटात्युरुहुङ्कृतः ॥
जयत्यमितपौरुषः स्वजनतेष्टचिन्तामणिः । अजेशमुखवन्दितो गुणगणार्णवः श्रीपतिः ॥
सर्वज्ञसन्मुनीन्द्रोच्चसन्मनःपङ्कजालयः(पङ्कजाश्रयः) । अजितो जयति श्रीशो रमाबाहुलताश्रयः ॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितः तत्त्वोद्योतः