Chapter One (प्रथमाध्यायः)
जयत्यब्जभवेशेन्द्रवन्दितः कमलापतिः। अनन्तविभवानन्दशक्तिज्ञानादिसद्गुणः ॥१॥
~~~
विधिं विधाय सर्गादौ तेन पृष्टोब्जलोचनः। आह देवो रमोत्सङ्गविलसत्पादपल्लवः ॥२॥
~~~
अहमेकोऽखिलगुणो वाचकः प्रणवो मम। अकाराद्यतिशान्तान्तः सोयमष्टाक्षरो मतः ॥३॥
~~~
स विश्वतैजसप्राज्ञतुरीयात्मान्तरात्मनाम्। परमात्मज्ञानात्मयुजां मद्रूपाणां च वाचकः ॥४॥
~~~
तद्रूपभेदाः पञ्चाशन्मूर्तयो मम चापराः। पञ्चाशद्वर्णवाच्यास्ता वर्णास्तारार्णभेदिताः ॥५॥
~~~
द्विरष्टपञ्चकचतुःपञ्चेत्येवाष्टवर्गगाः। अज आनन्द इन्द्रेशावुग्र ऊर्ज ऋतम्भरः ॥६॥
~~~
ॠघलृशौ लॄजिरैकात्मैर ओजोभृदौरसः। अन्तोऽर्धगर्भः कपिलः खपतिर्गरुडासनः ॥७॥
~~~
घर्मो ङसारश्चार्वङ्गश्छन्दोगम्यो जनार्दनः। झटितारिर्ञमष्टङ्की ठलको डलको ढरी ॥८॥
~~~
णात्मा तारस्थमो दण्डी धन्वी नम्यः परः फली। बली भगो मनुर्यज्ञो रामो लक्ष्मीपतिर्वरः ॥९॥
~~~
शान्तसंवित् षड्गुणश्च सारात्मा हंसळाळुकौ। पञ्चाशन्मूर्तयस्त्वेता ममाकारादिलक्षकाः ॥१०॥
~~~
नारायणाष्टाक्षरश्च ताराष्टाक्षरभेदवान्। आद्यैस्तारचतुर्वर्णैर्भिन्ना व्याहृतयः क्रमात् ॥११॥
~~~
अनिरुद्धादिकास्तासां देवता व्युत्क्रमेण वा। ताश्चतुर्मूर्तयस्त्वेव द्वादशार्णपदोदिताः ॥१२॥
~~~
नारायणाष्टाक्षराच्च व्याहृतिभ्यस्तथैव च। विभेदो द्वादशार्णानां केशवाद्याश्च देवताः ॥१३॥
~~~
नारायणाष्टाक्षराच्च व्याहृतित्रिगुणात् पुनः। वेदमाता च गायत्री द्विगुणा द्वादशाक्षरात् ॥१४॥
~~~
चतुर्विंशन्मूर्तयोऽस्याः कथिता वर्णदेवताः। तद्भेदः पौरुषं सूक्तं वेदाः पुरुषसूक्तगाः ॥१५॥
~~~
वैदिकास्सर्वशब्दाश्च तस्मात् सर्वाभिधोस्म्यहम्। पञ्चाशद्वर्णभिन्नाश्च सर्वशब्दा अतोपि च ॥१६॥
ऋषिश्च देवतैकोहं तारादीनां विशेषतः। छन्दो मदीया गायत्री ताराष्टाक्षरयोर्मता ॥१७॥
~~~
उद्यद्भास्वत्समाभासश्चिदानन्दैकदेहवान्। चक्रशङ्खगदापद्मधरो ध्येयोहमीश्वरः ॥१८॥
~~~
लक्ष्मीधराभ्यामाश्लिष्टः स्वमूर्तिगणमध्यगः। ब्रह्मवायुशिवाहीशविपैः शक्रादिकैरपि ॥१९॥
सेव्यमानोधिकं भक्त्या नित्यनिःशेषशक्तिमान्। मूर्तयोष्टावपि ध्येयाश्चक्रशङ्खवराभयैः। युक्ताः प्रदीपवर्णाश्च सर्वाभरणभूषिताः ॥२०॥
~~~
तादृग्रूपाश्च पञ्चाशज्ज्ञानमुद्राभयोद्यताः। टङ्की दण्डी च धन्वी च तत्तद्युक्तास्तु वामतः ॥२१॥
~~~
वासुदेवादिकाः शुक्लरक्तपीतासितोज्ज्वलाः। शङ्खचक्रगदाब्जेतः प्रथमो मुसली हली ॥२२॥
~~~
सशङ्खचक्रस्त्वपरस्तृतीयः शार्ङ्गबाणवान्। सशङ्खचक्रस्तुर्यस्तु चक्रशङ्खासिचर्मवान् ॥२३॥
~~~
केशवो मधुसूदनः सङ्कर्षणदामोदरौ। सवासुदेवप्रद्युम्नाः दक्षोच्चकरशङ्खिनः ॥२४॥
~~~
विष्णुमाधवानिरुद्ध पुरुषोत्तमाधोक्षजाः। जनार्दनश्च वामोच्चकरशङ्खिनः ॥२५॥
~~~
गोविन्दश्च तत्रिविक्रमः सश्रीधरहृषीकपः। नृसिंहश्चाच्युतश्चैव वामाधःकरशङ्खिनः ॥२६॥
~~~
वामनः सनारायणः पद्मनाभ उपेन्द्रकः। हरिः कृष्णश्च दक्षाधःकरे शङ्खधरा मताः ॥२७॥
~~~
शङ्खचक्रगदापद्मधराश्चैते हि सर्वशः। क्रमव्युत्क्रमपद्मादिगदादिव्युत्क्रमस्तथा ॥ अर्धक्रमः सान्तरश्च षट्सु षट्स्वरिपूर्विणाम् ॥२८॥
~~~
वर्णानां देवतानां च नित्यत्वाच्च क्रमः स्वतः। व्यक्तिक्रमं ब्रह्मबुद्धावपेक्ष्य क्रम उच्यते ॥२९॥
~~~
समासव्यासयोगेन व्याहृत्यादीनां चतुष्टयम्। सत्यं चाङ्गानि तारस्य प्रोच्यन्तेऽष्टाक्षरस्य च ॥३०॥
~~~
क्रुद्धमहावीरद्युल्कसहस्रसहितोल्ककाः। चतुर्थ्यन्ताः हृदादीनि पृथग्रूपाणि तानि च ॥३१॥
~~~
विष्णोरेवात्यभेदेपि तदैश्वर्यात् तदन्यवत्। चक्रशङ्खवराभीतिहस्तान्येतानि सर्वशः ॥३२॥
~~~
मूलरूपसवर्णानि कृष्णवर्णा शिखोच्यते। चतुर्विंशन्मूर्तयश्च मूलरूपसवर्णकाः ॥३३॥
~~~
आदिवर्णत्रयं नाभिहृच्छिरस्सु यथाक्रमम्। न्यसनीयं च तद्वर्णदेवताध्यानपूर्वकम् ॥३४॥
~~~
पज्जानुनाभिहृदयवाङ्नासानेत्रकेषु च। अष्टाक्षराणां न्यासः स्यात् व्याहृत्यादीनां प्रजापतिः ॥३५॥
मुनिश्छन्दस्तु गायत्री देवता भगवान् हरिः। उद्यदादित्यवर्णश्च ज्ञानमुद्राभयोद्यतः ॥३६॥
~~~
तारेण व्याहृतीभिश्च ज्ञेयान्यङ्गानि पञ्च च। नाभिहृत्केषु सर्वेषु चतस्रो व्याहृतीर्न्यसेत् ॥३७॥
~~~
द्वादशार्णस्य जगतीच्छन्दोऽन्यत् तारवत् स्मृतम्। अच्छवर्णोऽभयवरकरो ध्येयोमितद्युतिः ॥३८॥
~~~
पदैर्व्यस्तैः समस्तैश्च ज्ञेयान्यङ्गानि पञ्च च। अष्टाक्षराणां स्थानेषु बाह्वोरूर्वोश्च विन्यसेत् ॥३९॥
~~~
विश्वामित्रस्तु सन्ध्यार्थे तदन्यत्र प्रजापतिः। मुनिर्देवस्तु सवितृनामा स्रष्टृत्वतो हरिः ॥४०॥
~~~
प्रोद्यदादित्यवर्णश्च सूर्यमण्डलमध्यगः। चक्रशङ्खधरोङ्कस्थदोर्द्वयो ध्येय एव च ॥४१॥
~~~
सताराश्च व्याहृतयो गायत्र्यङ्गानि पञ्च च। दोःपत्सन्धिषु साग्रेषु नाभिहृन्मुखेषु च ॥४२॥
वर्णन्यासश्च कर्तव्यस्तारवन्निखिलं स्मृतम्। पञ्चाशदक्षराणां च पुंसूक्तस्यापि सर्वशः ॥४३॥
~~~
अनुष्टुभश्च त्रिष्टुप् च छन्दोस्य त्रिष्टुभोपि वा। विष्णुशब्दश्चतुर्थ्यन्तो हृदयेन षडक्षरः ॥४४॥
~~~
तारवत् सर्वमस्यापि श्यामो ध्येयो हरिः स्वयम्। वर्णा एव षडङ्गानि षणयोर्भेदयोगतः ॥४५॥
~~~
पज्जानुनाभिहृन्नासाकेषु न्यासश्च वर्णशः। एते तु सर्वमन्त्राणां मूलमन्त्रा विशेषतः ॥४६॥
~~~
एतज्ज्ञानात् समस्तं च ज्ञानं स्याच्छब्दगोचरम्। एतज्जपात् समस्तानां मन्त्राणां जापको भवेत् ॥४७॥
~~~
पूज्यश्च भगवान् नित्यं चक्राब्जादिकमण्डले। हृदये वा चले वापि जले वा केवले स्थले ॥४८॥
~~~
अष्टाक्षरेण सम्पूज्य प्रथमं देवतां पराम्। मध्ये सव्ये गुरूंश्चैव दक्षिणे सर्वदेवताः ॥४९॥
पुनः सव्ये सर्वगुरूनाग्नेयादिषु च क्रमात्। गरुडं व्यासदेवं च दुर्गां चैव सरस्वतीम् ॥५०॥
धर्मं ज्ञानं च वैराग्यमैश्वर्यं चैव कोणगान्। तदन्तः पूर्वदिक्पूर्वमधर्मादींश्च पूजयेत् ॥५१॥
~~~
अपूजिता अधर्मादिदातारस्ते तथाभिधाः। निर्ऋतिश्चैव दुर्गा च कामो रुद्रश्च देवताः ॥५२॥
~~~
यमवायुशिवेन्द्राश्च ज्ञेया धर्मादिदेवताः। परमः पुरुषो मध्ये शक्तिराधाररूपिणी ॥५३॥
~~~
कूर्मोनन्तश्च पृथिवी क्षीरसागर एव च। श्वेतद्वीपो मण्टपश्च दिव्यरत्नमयो महान् ॥५४॥
~~~
पद्ममेतत्त्रयं देवी रमैव बहुरूपिणी। सूर्यसोमहुताशाश्च पद्मे श्रीस्त्रिगुणात्मिका ॥५५॥
~~~
आत्मान्तरात्मपरमज्ञानात्मानश्च मूर्तयः। विमलोत्कर्षिणी ज्ञाना क्रिया योगा तथैव च ॥५६॥
प्रह्वी सत्या तथेशानानुग्रहा चेति शक्तयः। अष्टदिक्षु च मध्ये च स्वरूपाण्येव ता हरेः ॥५७॥
~~~
ततोनन्तं योगपीठस्वरूपं पूजयेद्धरेः। तत्रावाह्य हरिं चार्घ्यं पाद्यमाचमनीयकम् ॥५८॥
मधुपर्कं पुनश्चाचां स्नानं वासो विभूषणम्। उपवीतासने दत्वा गन्धपुष्पे तथैव च ॥५९॥
लक्ष्मीधरे यजेत्तत्र पार्श्वयोरुभयोर्हरेः। हृदयादींस्तथेन्द्रादिदिक्ष्वस्त्रं कोणकेषु च ॥६०॥
~~~
वासुदेवादिकान् दिक्षु केशवादींस्ततः परम्। मत्स्यं कूर्मं वराहं च नारसिंहं च वामनम् ॥६१॥
भार्गवं राघवं कृष्णं बुद्धं कल्किनमेव च। अनन्तं विश्वरूपं च तद्बहिः पूजयेत् क्रमात् ॥६२॥
~~~
अनन्तब्रह्मवाय्वीशान् वीशं चाग्रे प्रपूजयेत्। वारुणीं चैव गायत्रीं भारतीं गिरिजामपि ॥६३॥
कोणेषु वीन्द्रवामे च सौपर्णीं पूजयेदपि। इन्द्रादीन् शेषविध्यन्तान् सभार्यान् सपरिग्रहान् ॥६४॥
~~~
धूपदीपौ ततो दत्वा नैवेद्यं मूलमन्त्रतः। अनेन क्रमयोगेन जुहुयात् संस्कृतेनले ॥६५॥
~~~
पुष्पाञ्जलिश्च होमश्च मूलेनाष्टोत्तरं शतम्। सकृत् सकृत् पुष्पमन्यैर्होमस्तस्य चतुर्गुणः ॥६६॥
~~~
विसर्जयित्वा नैवेद्यं मूलेन त्रिः समर्च्य च। धूपदीपौ पुनर्दत्वा पुनर्मूलेन पूर्ववत् ॥६७॥
अर्चयित्वा पुनर्ध्यात्वा जपेदष्टोत्तरं शतम्। पुनर्ध्यायेद्धरिं सर्वदेवदेवेश्वरं प्रभुम् ॥६८॥
~~~
जपध्यानहुतार्चादीनेवं यः कुरुते सदा। धर्मार्थकाममोक्षाणां भाजनं स्यात् स एव हि ॥६९॥
~~~
सर्वोत्तमं हरिं ज्ञात्वा य एवं भक्तिपूर्वकम्। जपध्यानादिभिर्नित्यं पूजयेन्नास्य दुर्लभम् ॥७०॥
~~~
भक्तिं कृत्वान्यदेवेषु ब्रह्मरुद्रादिकेष्वपि। सर्वोत्कर्षमविज्ञाय विष्णोर्याति तमो ध्रुवम् ॥७१॥
~~~
न यज्ञा न च तीर्थानि नोपवासव्रतानि च। दैवतानि च सर्वाणि त्रातुं तं शक्नुयुः क्वचित् ॥७२॥
~~~
हरिर्हि सर्वदेवानां परमः पूर्णशक्तिमान्। स्वतन्त्रोन्ये तद्वशा हि सर्वेतः स जगद्गुरुः ॥७३॥
~~~
ब्रह्मादयश्च तद्भक्त्या भागिनो भोगमोक्षयोः। तस्माज्ज्ञेयश्च पूज्यश्च वन्द्यो ध्येयः सदा हरिः ॥७४॥
~~~
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते तन्त्रसारसङ्ग्रहे प्रथमोध्यायः॥