Talavakāropaniṣat Bhāshya
Section One (प्रथमः खण्डः)
केनेषितं पतति प्रेषितं मनः केन प्राणः प्रथमः प्रैति युक्तः। केनेषितां वाचमिमां वदन्ति चक्षुः श्रोत्रं क उ देवो युनक्ति ॥१॥
श्रोत्रस्य श्रोत्रं मनसो मनो यद् वाचो ह वाचं स उ प्राणस्य प्राणः। चक्षुषश्चक्षुरति मुच्य धीराः प्रेत्यास्माल्लोकादमृता भवन्ति ॥२॥
न तत्र चक्षुर्गच्छति न वाग् गच्छति नो मनः। न विद्म न विजानीमो यथैतदनु शिष्यात् ॥३॥
अन्यदेव तद्विदितादथो अविदितादधि। इति शुश्रुम पूर्वेषां ये नस्तद् वाचचक्षिरे ॥४॥
यद् वाचाऽनभ्युदितं येन वागभ्युद्यते। तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपास ते ॥५॥
यन्मनसा न मनुते येनाऽहुर्मनो मतम्। तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपास ते ॥६॥
यच्चक्षुषा न पश्यति येन चक्षूंषि पश्यति। तदेव ब्रह्मत्वं विद्धि नेदं यदिदमुपास ते ॥७॥
यच्छ्रोत्रेण न शृणोति येन श्रोत्रमिदं श्रुतम्। तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपास ते ॥८॥
यत् प्राणेन न प्राणिति येन प्राणः प्रणीयते। तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपास ते ॥९॥
Section One Bhāshya
अनन्तगुणपूर्णत्वादगम्याय सुरैरपि। सर्वेष्टदात्रे देवानां नमो नारायणाय ते॥
"वैजयन्ते समासीनमेकान्ते चतुराननम्। विष्णोर्विविदिषुस्तत्त्वं पर्यपृच्छत् सदाशिवः॥ यदिदं पुरुषावश्यं तत्र तत्र पतेन्मनः। केन तत् प्रेरितं याति प्राणः सर्वोत्तमस्तथा॥
चक्षुःश्रोत्रं तथा वाचं को देवो विनियोजयेत्। इति पृष्टस्तदा ब्रह्मा प्राह देवमुमापतिम्॥ ध्यात्वा नारायणं देवं सर्वाधारमनूपमम्। सर्वज्ञं सर्वशक्तिं च सर्वदोषविवर्जितम्॥
यः प्राणस्य प्रणेता च चक्षुरादेश्च सर्वशः। अगम्यः सर्वदेवैश्च परिपूर्णत्वहेतुतः॥ प्राणादीनां प्रणेता च सर्ववेत्ता च सर्वशः। सर्वोत्तमश्च सर्वत्र स विष्णुरिति धार्यताम्॥...
[...इत्यादि ब्रह्मसारे॥]
॥ इति प्रथमः खण्डः ॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Source and Copyright: The Sanskrit works of Madhvacharya reproduced here are ancient public-domain texts. Digital Sanskrit sources are acknowledged wherever applicable. The English translations, explanatory notes and original editorial material on madhva.in are © Madhukrishna Sudhindra, unless otherwise indicated.