Taittirīyopaniṣat 03.14 and 15
स यश्चायं पुरुषे। यश्चासावादित्ये। स एकः। स य एवंवित्। अस्माल्लोकात् प्रेत्य। एतमन्नमयमात्मानमुपसङ्क्रम्य। एतं प्राणमयमात्मानमुपसङ्क्रम्य। एतं मनोमयमात्मानमुपसङ्क्रम्य। एतं विज्ञानमयमात्मानमुपसङ्क्रम्य। एतमानन्दमयमात्मानमुपसङ्क्रम्य। इमान् लोकान् कामान्नी कामरूप्यनुसञ्चरन्। एतत् साम गायन्नास्ते। हावु हावु हावु। अहमन्नमहमन्नमहमन्नम्। अहमन्नादोऽहमन्नादोऽहमन्नादः। अहग् श्लोककृदहग् श्लोककृदहग् श्लोककृत्॥१४॥
अहमस्मि प्रथमजा ऋतास्य। पूर्वं देवेभ्योऽमृतस्य नाभा इ। यो मा ददाति स इदेव मा वाः। अहमन्नमन्नमदन्तमाद्मि। अहं विश्वं भुवनमभ्यभवाम्। सुवर्णज्योतीः। य एवं वेद। इत्युपनिषत्॥१५॥
Taittirīya Bhāshya 03.14
"वेदैनं तत्त्वतो ब्रह्मा स एनं पञ्चरूपिणम्॥ प्राप्य गायति मुक्तः सन् अन्ननामाऽस्मि भोग्यतः। यथेष्टमन्नभोक्ता च कीर्तिकर्ता हरेस्तथा॥
ऋतरूपस्य विष्णोस्तु पुत्रः प्रथमजो ह्यहम्। देवेभ्यः पूर्वजश्चाहं मुक्तानामाश्रयः सदा॥ यो ददाति च मां सम्यग् विष्णुतत्त्वप्रकाशकः। स इत्थमेव मां याति विष्णोरन्नमहं सदा॥
ममान्नं सर्वजीवास्तु भोग्या मम यतः सदा। सर्वमभ्यभवं चाहं गुणैः सर्वैश्च नित्यकैः॥
सुवर्णो भगवान् विष्णुर्ज्योतिः स मम रेचकः। योऽहमेवंविदभवं तस्य मे माधवः पतिः॥ इति ब्रह्मा गायमानो मुक्तश्चरति सर्वदा॥"
इति यजुःसंहितायाम्।
अन्नं भगवन्तं न परिचक्षीत। न निराकुर्यात्। तद्गुणांस्तत्कर्माणि वा कुत्रापि बहु कुर्वीत। बहुगुणत्वेन प्रतिपादयेद्। भगवन्तम् यया कया च विधया बह्वन्नं प्राप्नुयात्। अतिप्रयत्नेनापि विहितप्रकारेण बहुतरां भगवद्विद्यां प्राप्नुयात्।
"प्रजापतिः प्रथमजा ऋतस्यात्मनाऽऽत्मानमभि सम्बभूव। प्रजापते न त्वदेतान्यन्यो विश्वा जातानि परि ता बभूव।"
इत्यादिना विरिञ्चस्यैवैतद् गानम्। अन्यो न परिबभूवेति निषेधात्।
"विद्युद्वन्मानुषा विद्युः सूर्यमण्डलवत् सुराः। प्रतिबिम्बवच्च गिरिशो ब्रह्मैनं पश्यति स्फुटम्॥
ब्रह्मा हि स्थिरचिद्रूपो बहुलात्मा विशेषतः। अन्ये क्रमादबहुलाः तथा चञ्चलचेतसः॥ तस्मात् सम्यङ् न पश्यन्ति हरिं ब्रह्मा तु पश्यति॥"
इति हरिवंशवचनाच्च ब्रह्मैवैनं सम्यग् वेद।
यस्योच्चोथ समो वा कश्चिन्नैवास्त्यनन्तसच्छक्तेः। तं वन्दे परमेशं प्रेयांसं प्रेयसश्च मे विष्णुम्॥
यस्य त्रीण्युदितानि वेदवचने रूपाणि दिव्यान्यलं बट् तद्दर्शतमित्थमेव निहितं देवस्य भर्गो महत्।
वायो रामवचोनयं प्रथमकं पृत्क्षो द्वितीयं वपुः। मध्वो यत्तु तृतीयकं कृतमिदं भाष्यं हि तेन प्रभौ॥
हनुशब्दो ज्ञानवाची हनूमान् मतिशब्दितः। रामस्य स्वृतरूपस्य वाचस्तेनानयन्त हि॥
भृतमो भीम इत्युक्तो वाचो मा मातरः स्मृताः। ऋगाद्याः इतिहासश्च पुराणं पञ्चरात्रकम्॥
प्रोक्ताः सप्त शिवास्तत्र शयो भीमस्ततः स्मृतः। मध्वित्यानन्द उद्दिष्टो वेति तीर्थमुदाहृतम्॥
मध्व आनन्दतीर्थः स्यात् तृतीया मारुती तनुः। इति सूक्तगतं रूपत्रयमेतन्महात्मनः। यो वेद वेदवित् स स्यात् तत्त्ववित् तत्प्रसादतः॥
इति च।
साधको रामवाक्यानां तत्समीपगतः सदा। हनूमान् प्रथमो ज्ञेयो भीमस्तु बहुभुक् पितोः॥
पृतनाक्षयकारी च द्वितीयस्तु तृतीयकः। पूर्णप्रज्ञस्तथाऽऽनन्दतीर्थनामा प्रकीर्तितः॥
दशेति सर्वमुद्दिष्टं सर्वं पूर्णमिहोच्यते। प्रज्ञा प्रमतिरुद्दिष्टा पूर्णप्रज्ञस्ततः स्मृतः॥
आ समन्तात् पतित्वे तु गूढं कलियुगे हरिम्। असत्यमप्रतिष्ठं च जगदेतदनीश्वरम्॥
वदद्धिर्गोहितं सन्तं तृतीयोऽसुर्मथायति। येन विष्णोस्तु वर्पाख्यान् गुणानज्ञासिषुः परान्॥
ईशानासः सूरयश्च निगूढान् निर्गुणोक्तिभिः। त्रेतायां द्वापरे चैव कलौ चैते क्रमात् त्रयः॥
एतेषां परमो विष्णुः नेता सर्वेश्वरेश्वरः। स्वयम्भुब्रह्मसञ्ज्ञोऽसौ परस्मै ब्रह्मणे नमः॥
इति च।
पूर्णागण्यगुणोदारधाम्ने नित्याय वेधसे। अमन्दानन्दसान्द्राय प्रेयसे विष्णवे नमः॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्य विरचिते तैत्तिरीयोपनिषद्भाष्यम्॥
ॐ सह नाववतु। सह नौ भुनक्तु। सह वीर्यं करवावहै। तेजस्वि नावधीतमस्तु मा विद्विषावहै। ॐ शान्तिः शान्तिः शान्तिः॥
॥ इति तृतीया भृगुवल्ली समाप्ता॥
॥ इति तैत्तिरीयोपनिषत् समाप्ता॥