Taittirīyopaniṣat Bhāṣyam (तैत्तिरीयोपनिषत् भाष्यम्)
Taittirīyopaniṣat 03.12
क्षेम इति वाचि। योगक्षेम इति प्राणापानयोः। कर्मेति हस्तयोः। गतिरिति पादयोः। विमुक्तिरिति पायौ। इति मानुषीः समाज्ञाः। अथ दैवीः। तृप्तिरिति वृष्टौ। बलमिति विद्युति। यश इति पशुषु। ज्योतिरिति नक्षत्रेषु। प्रजातिरमृतमानन्द इत्युपस्थे। सर्वमित्याकाशे ॥१२॥
Taittirīya Bhāshya 03.12
"क्षेमकृत्वात् क्षेमनामा वाचिस्थः स परो हरिः। योगनामा तथा प्राणे सर्वकामनियोजनात्॥
क्षेमनामा क्षेमकृत्त्वात् अपाने हि हरिः स्वयम्। कर्मनामा हस्तगतः कर्मकृत्त्वात् जनार्दनः॥
गतिदत्वात् गतिर्नाम पादस्थः पुरुषोत्तमः। विसर्गकृद् विमुक्त्याख्यः पायुस्थः परमो विभुः॥
अध्यात्मस्थ इति प्रोक्तोऽथाधिदैवगतं शृणु। पर्जन्ये तृप्तिनामासौ तृप्तिदत्वाज्जनार्दनः॥
वायौ तु बलनामा च बलदत्वात् सदैव हि। यशःप्रदत्वात् दक्षे तु यशः पश्वभिमानिनि॥
नक्षत्रेषु ज्योतिराख्यो ज्योतिर्दातृत्वतो हरिः। उपस्थमानिनि शिवे प्रजात्यानन्दसन्ततेः॥
दातृत्वात् तत्तदाख्योऽसौ सन्ततिस्त्वमृतं स्मृतम्। सर्वः सर्वप्रदत्वात् तु प्रकृतौ पुरुषोत्तमः॥"

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2026, Incredible Wisdom.
All rights reserved.