Taittirīyopaniṣat 03.11
न कंचन वसतौ प्रत्याचक्षीत। तद् व्रतम्। तस्माद् यया कया च विधया बह्वन्नं प्राप्नुयात्। अराध्यस्मा अन्नमित्याचक्षते। एतद्वै मुखतोन्नगं राद्धम्। मुखतोऽस्मा अन्नगं राध्यते। एतद्वै मध्यतोऽन्नगं राद्धम्। मध्यतोऽस्मा अन्नगं राध्यते। एतद्वा अन्ततोन्नगं राद्धम्। अन्ततोऽस्मा अन्नगं राध्यते। य एवं वेद ॥११॥
Taittirīya Bhāshya 03.11
"... विद्यार्थे वसतीच्छया। आगतं नेति न ब्रूयात् तदेतद् विदुषो व्रतम्॥
स विष्णुः पृथिवीनामा पृथुत्वात् प्राणनामकः। प्रकृष्टानन्दबलत आकाशः सर्ववेत्तृतः॥
शराख्यदेहिनश्चैव शरीरं प्रेरणात् स्मृतः। एतैश्चतुर्भिर्भगवान् रूपैश्च चतुरात्मभिः॥
भोग्यभोक्तृस्वरूपेण तिष्ठति क्रीडया स्वयम्। न च भोग्यत्वमात्रेण हीनत्वं तस्य कुत्रचित्॥
न हि भार्योपभोग्यस्तु भर्ता हीनत्वमाप्नुयात्। एवं स भगवान् विष्णुरविशेषोऽखिलेष्वपि॥
रूपेषु क्रीडते नित्यं भोक्ता भोग्य इतीच्छया। अन्नाख्यं तं नैव निन्द्यात् बहु मन्येत तं सदा॥
इति व्रतद्वयं ह्येतद् भाव्यं यदि सुखे स्पृहा। येन केनापि विधिना बह्वित्येव जनार्दनम्॥
मत्वैव प्राप्नुयान्नित्यं मनोवाक्कायवृत्तिभिः। य एवं समुपासीत तस्यान्नाख्यो हरिः स्वयम्॥
सिद्ध इत्येव हि प्राहुर्विद्वांसः परिनिष्ठिताः। यस्य तद् ब्रह्म संसिद्धं पूर्वं तेनाऽप्यतेऽग्रतः॥
मध्ये वयसि चेत् सिद्धं मुक्तो मध्यं प्रपश्यति। वार्धके चेद् विजानाति मुक्तः पादौ प्रपश्यति॥
तेजोमण्डलमेवान्यत् अङ्गं विष्णोः प्रपश्यति। पूर्वे वयसि बोद्धव्यमामुखात् सर्वदृष्टये॥"