Taittirīyopaniṣat Bhāṣyam (तैत्तिरीयोपनिषत् भाष्यम्)
Taittirīyopaniṣat 02.27 and 28
स यश्चायं पुरुषे। यश्चासावादित्ये। स एकः। स य एवंवित्। अस्माल्लोकात् प्रेत्य। एतमन्नमयमात्मानमुप सङ्क्रामति। एतं प्राणमयमात्मानमुप सङ्क्रामति। एतं मनोमयमात्मानमुप सङ्क्रामति। एतं विज्ञानमयमात्मानमुप सङ्क्रामति। एतमानन्दमयमात्मानमुप सङ्क्रामति ॥२७॥
तदप्येष श्लोको भवति। यतो वाचो निवर्तन्ते। अप्राप्य मनसा सह। आनन्दं ब्रह्मणो विद्वान्। न बिभेति कुतश्चनेति। एतगं ह वाव न तपति। किमहगं साधु नाकरवम्। किमहं पापमकरवमिति। स य एवं विद्वानेते आत्मानग् स्पृणुते। उभे ह्येवैष एते आत्मानग्ग् स्पृणुते । य एवं वेद। इत्युपनिषत् ॥२८॥
ॐ सह नाववतु। सह नौ भुनक्तु। सह वीर्यं करवावहै। तेजस्वि नावधीतमस्तु मा विद्विषावहै॥ ॐ शान्तिः शान्तिः शान्तिः॥
॥ इति ब्रह्मवल्ली ॥२॥
Taittirīya Bhāshya 02.27 and 28
"यत्प्रसादात् स्वरूपाप्तिः ब्रह्मादीनां समन्ततः। स विष्णुः सर्वजीवेषु नृषु देवेषु च स्थितः॥
एक एव महायोगी निर्विशेषोऽखिलैर्गुणैः। सर्वोत्तमः स पूर्णश्च तमेवं वेद यः पुमान्॥
जीवांश्च तारतम्यस्थान् स गच्छेत् पञ्चरूपिणम्। विष्णुं न पुण्यपापे च तस्यानिष्टे कदाचन। प्रियाप्रियेषु तज्ज्ञानी ह्यास्तृणोति यतो नृषु॥
अगोचरं वाङ्मनसोरानन्त्यात् पुरुषोत्तमम्। ज्ञात्वा मुक्तस्य भीर्नैव कुतश्चन भविष्यति॥"
इत्यादि यजुःसंहितायाम्।
न च "सह ब्रह्मणा" इत्यादेरन्योऽर्थः कल्पनीयः। अप्रामाणिकत्वादनाश्वासाच्च।
न च "औषधीभ्योऽन्नम्", "अन्नरसमयः" - इत्यत्रोभयार्थत्वेन विरोधः। "अन्नस्यान्नम्", "मध्यमः प्राणः", "प्राणः स्थूणा" - इत्यादिवद् विशेषितत्वादुपपत्तेः।
न चान्नमयदीनामब्रह्मत्वे किङचिन्मानम्।
"येऽन्नं ब्रह्मोपासते", "ये प्राणं ब्रह्मोपासते", "आनन्दं ब्रह्मणो विद्वान्", "विज्ञानं ब्रह्म चेद् वेद", "अस्ति ब्रह्मेति चेद्वेद", "अधीहि भगवो ब्रह्मेति", "तस्मा एतत् प्रोवाच । अन्नं प्राणं चक्षुः श्रोत्रं मनो वाचम्" - इत्यादिना ब्रह्मशब्देनोक्तत्वाच्च।
न च लौकिकान्नस्य अत्तृत्वमस्ति।
"येऽन्यथा विद्युस्तेऽन्य राजानः ते क्षय्यलोका भवन्ति" - इति श्रुतेरविद्यमानोपासनाद् दोषावगतेश्च।
"न च रमन्त्यहो असदुपासनयाऽऽत्महनः"
इति च भागवते।
"नाविद्यमानं ब्रुवते वेदा ध्यातुं न वैदिकाः। अविद्यमानं ध्यायन्तो यान्ति सर्वेऽधरं तमः॥ तस्मात् सत्यार्थतां ब्रूयात् वेदानामपि सर्वशः। य एवं वेद स ज्ञानी ज्ञानवान् नान्यथा भवेत्॥"
इति वेदार्थविवेके।
"स यश्चायं पुरुषे यश्चासावादित्ये" - इत्यधिकरणत्वेन भेद एव जीवस्य परमादुक्तः।
"एतस्मिन्नदृश्ये अनात्म्ये अनिरुक्ते अनिलयने अभयं प्रतिष्ठां विन्दते", "एतमानन्दमयमात्मानमुपसङ्क्रामति", "सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता", "एतमानन्दमयमात्मानमुसङ्क्रम्य। इमान् लोकान् कामान्नी कामरूप्यनुसञ्चरन्" - इत्यादिना मुक्तस्यापि भेद एवाभ्यस्यते।
"अथ सोऽभयं गतो भवति" - इति मुक्तिप्रस्तावात्।
"सैषानन्दस्य मीमांसा" - इति मुक्तानन्दो मीमांस्यते।
"श्रोत्रियस्य चाकामाहतस्य" - इति सर्वत्र विशेषणाच्च।
न ह्यमुक्तस्य अकामहतत्वं मुख्यं भवति। न च मुख्या श्रोत्रियता।
"यस्य श्रुतिफलं पूर्णं स श्रोत्रिय उदाहृतः। स हि मुक्तोऽकामहतः स हि कामैर्न हन्यते॥
यस्य कामास्तु सत्याः स्युस्सहि कामैर्न हन्यते। न ह्यकामः क्वचित् कश्चित् दृश्यते श्रूयतेऽपि च॥"
इति ब्रह्माण्डे।
न च देवपदाकामस्य सकाशात् इन्द्रपदाकामस्य शतगुणानन्दो दृश्यते। सति च प्राजापत्यादिकामे। न च मानुषाः प्रायस्तदिच्छवः। चक्रवर्तिनस्तु युवशब्देनैव मुक्तत्वमुक्तम्। तस्मात् मुक्तविषयेयं मीमांसा।
"यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि स्थिताः" - इत्यत्राप्यन्तःकरणस्थानामेव कामानां विमोक्ष उक्तः। न तु स्वरूपभूतानाम्।
"यं यमन्तमभिकामो भवति सोऽस्य सङ्कल्पादेव भवति" - इति मुक्तानामपि स्वरूपभूतः कामः प्रतीयते।
"कामाः सङ्कल्प आनन्दो मुक्तानां तारतम्यतः। स्वरूपभूतास्ते सर्वे निर्दोषा गुणरूपकाः॥"
इति पाद्मे।
"सङ्कल्पादेव च तच्छ्रुतेः" - इति सूत्रम्।
"भेदव्यपदेशात्" इति जीवेशयोर्भेदश्चोक्तो भगवता। न च भेददर्शनमसुकरम्। स्वरूपत्वात् भेदस्य। सर्वव्यावृत्तं हि सर्वस्य स्वरूपं सर्वैरनुभूयते।
अन्यथा "अहं वा दृष्टोऽन्यो वा दृष्टः" - इत्यपि संशयः स्यात्।
न च पश्चात् भेदो ज्ञायत इत्यत्र किङचन्मानम्। न हि दृष्टवस्तुनः पुरुषस्य तस्य वस्त्वन्तराद् भेदे संशयः क्वचिद् दृष्टः। न च सर्वतो व्यावृत्यनुभवे सर्वज्ञता अपेक्षितेति दोषः।
सामान्यतः सर्वस्य सर्वैरपि ज्ञातत्वात्। यावत्तु सर्वतो भेदो विशेषतो न ज्ञायते तावत् स्वरूपमेव विशेषतो न ज्ञातम्। न हि ज्ञाताद्वस्तुनोऽव्यावृत्तिः केनचित् शङ्क्यते।
यदा तु संशीयते तदाऽपि कुतश्चिद् व्यावृत्तमेव ज्ञायते। न हि सर्वमिदं भवति वा न वेति कस्यचित् संशयः। अतो व्यावृत्तिरेव स्वरूपम्।
अस्य भेद इति विशेष्यत्वमस्य स्वरूपमितिवत्।
यथाऽस्तीति वर्तमानः कालो वस्तुना सहैवानुभूयते एवमन्यस्मात् व्यावृत्तमित्यत्र अन्यदपि सामान्यतः सहैवानुभूयते।
न ह्यस्तीति वर्तमानकालापेक्षया अनुभूयात इत्येतावता विद्यमानता नाम वस्तुनोऽन्या।
सदित्यपि शत्रन्तत्वात् कालसम्बन्ध्येवाऽनुभूयते तिष्ठन्नितिवत्। एवमन्यस्माद् व्यावृत्तमित्यन्येन सह प्रतीयमानमपि न स्वरूपादन्यत्।
अस्माद् व्यावृत्तिरन्यस्य स्वरूपम्। अन्यस्माद् व्यावृत्तिरस्य स्वरूपमिति नैकस्वरूपता।
ज्ञानानन्दादिवत् स्वरूपत्वेऽपि व्यवहारविशेषो भवति। न च स्वरूपत्वेन भेदस्याभावो भवति। ज्ञानान्दादिवदेव। अन्यप्रतियोगिकत्वाद् भेदस्य न स्वस्मादपि भवति।
"भेदस्तु सर्ववस्तूनां स्वरूपं नैजमव्ययम्। नष्टानामपि वस्तूनां भेदो नैव विनश्यति॥ अवस्तुनोऽपि रूपं स्वं भेद एव न चान्यथा। विशेषरूपनाशेन भेदमात्रावसायिता॥
नाश इत्युच्यते सद्भिः भेदो न हि विनश्यति। इत्याहुः केचिदज्ञानात् तत्राहुः सूक्ष्मदर्शिनः॥ सत्यं भेदस्तु वस्तूनां स्वरूपं नात्र संशयः। तस्माद् वस्तुविनाशे तु तद्भेदो नास्ति कुत्रचित्॥
अविनष्टस्य तस्मात्तु भेदोऽस्त्येव स्वरूपतः। एवं भावादभावस्य न भेदो भावरूपवान्॥ अभावाद् भावरूपस्य स्वरूपं भाव इष्यते। नष्टभेदोऽप्यभावात्मा विद्यते च विनाशतः॥
स्वरूपत्वात्तु भेदस्य भेदे शङ्का न कस्यचित्। सर्वं सामान्यतो यस्मात् सर्वैरप्यनुभूयते॥ तस्माद् व्यावृत्तता सर्वैः सर्वस्मादनुभूयते। प्रतियोगिता त्वभावस्याप्यस्त्यभावतया स्फुटम्॥
न ह्यभावोऽप्यधर्मा स्यान्न तु स्याद् भावधर्मयुक्। अभावस्यास्तिता नाम स्यादेवाभावरूपिणी॥
अभावतापि सैव स्यात् न तु स्याद्भावरूपिणी। अतः स सर्वव्यावृत्तस्वरूपो भगवान् परः॥ येन ज्ञातः स तु ज्ञानी मुच्यते नात्र संशयः॥"
इति तत्त्वनिर्णये॥
॥ इति द्वितीया ब्रह्मवल्ली समाप्ता ॥२॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2026, Incredible Wisdom.
All rights reserved.