Taittirīyopaniṣat 02.27 and 28
स यश्चायं पुरुषे। यश्चासावादित्ये। स एकः। स य एवंवित्। अस्माल्लोकात् प्रेत्य। एतमन्नमयमात्मानमुप सङ्क्रामति। एतं प्राणमयमात्मानमुप सङ्क्रामति। एतं मनोमयमात्मानमुप सङ्क्रामति। एतं विज्ञानमयमात्मानमुप सङ्क्रामति। एतमानन्दमयमात्मानमुप सङ्क्रामति ॥२७॥
तदप्येष श्लोको भवति। यतो वाचो निवर्तन्ते। अप्राप्य मनसा सह। आनन्दं ब्रह्मणो विद्वान्। न बिभेति कुतश्चनेति। एतगं ह वाव न तपति। किमहगं साधु नाकरवम्। किमहं पापमकरवमिति। स य एवं विद्वानेते आत्मानग् स्पृणुते। उभे ह्येवैष एते आत्मानग्ग् स्पृणुते । य एवं वेद। इत्युपनिषत् ॥२८॥
ॐ सह नाववतु। सह नौ भुनक्तु। सह वीर्यं करवावहै। तेजस्वि नावधीतमस्तु मा विद्विषावहै॥ ॐ शान्तिः शान्तिः शान्तिः॥
॥ इति ब्रह्मवल्ली ॥२॥
Taittirīya Bhāshya 02.27 and 28
"यत्प्रसादात् स्वरूपाप्तिः ब्रह्मादीनां समन्ततः। स विष्णुः सर्वजीवेषु नृषु देवेषु च स्थितः॥
एक एव महायोगी निर्विशेषोऽखिलैर्गुणैः। सर्वोत्तमः स पूर्णश्च तमेवं वेद यः पुमान्॥
जीवांश्च तारतम्यस्थान् स गच्छेत् पञ्चरूपिणम्। विष्णुं न पुण्यपापे च तस्यानिष्टे कदाचन। प्रियाप्रियेषु तज्ज्ञानी ह्यास्तृणोति यतो नृषु॥
अगोचरं वाङ्मनसोरानन्त्यात् पुरुषोत्तमम्। ज्ञात्वा मुक्तस्य भीर्नैव कुतश्चन भविष्यति॥"
इत्यादि यजुःसंहितायाम्।
न च "सह ब्रह्मणा" इत्यादेरन्योऽर्थः कल्पनीयः। अप्रामाणिकत्वादनाश्वासाच्च।
न च "औषधीभ्योऽन्नम्", "अन्नरसमयः" - इत्यत्रोभयार्थत्वेन विरोधः। "अन्नस्यान्नम्", "मध्यमः प्राणः", "प्राणः स्थूणा" - इत्यादिवद् विशेषितत्वादुपपत्तेः।
न चान्नमयदीनामब्रह्मत्वे किङचिन्मानम्।
"येऽन्नं ब्रह्मोपासते", "ये प्राणं ब्रह्मोपासते", "आनन्दं ब्रह्मणो विद्वान्", "विज्ञानं ब्रह्म चेद् वेद", "अस्ति ब्रह्मेति चेद्वेद", "अधीहि भगवो ब्रह्मेति", "तस्मा एतत् प्रोवाच । अन्नं प्राणं चक्षुः श्रोत्रं मनो वाचम्" - इत्यादिना ब्रह्मशब्देनोक्तत्वाच्च।
न च लौकिकान्नस्य अत्तृत्वमस्ति।
"येऽन्यथा विद्युस्तेऽन्य राजानः ते क्षय्यलोका भवन्ति" - इति श्रुतेरविद्यमानोपासनाद् दोषावगतेश्च।
"न च रमन्त्यहो असदुपासनयाऽऽत्महनः"
इति च भागवते।
"नाविद्यमानं ब्रुवते वेदा ध्यातुं न वैदिकाः। अविद्यमानं ध्यायन्तो यान्ति सर्वेऽधरं तमः॥ तस्मात् सत्यार्थतां ब्रूयात् वेदानामपि सर्वशः। य एवं वेद स ज्ञानी ज्ञानवान् नान्यथा भवेत्॥"
इति वेदार्थविवेके।
"स यश्चायं पुरुषे यश्चासावादित्ये" - इत्यधिकरणत्वेन भेद एव जीवस्य परमादुक्तः।
"एतस्मिन्नदृश्ये अनात्म्ये अनिरुक्ते अनिलयने अभयं प्रतिष्ठां विन्दते", "एतमानन्दमयमात्मानमुपसङ्क्रामति", "सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता", "एतमानन्दमयमात्मानमुसङ्क्रम्य। इमान् लोकान् कामान्नी कामरूप्यनुसञ्चरन्" - इत्यादिना मुक्तस्यापि भेद एवाभ्यस्यते।
"अथ सोऽभयं गतो भवति" - इति मुक्तिप्रस्तावात्।
"सैषानन्दस्य मीमांसा" - इति मुक्तानन्दो मीमांस्यते।
"श्रोत्रियस्य चाकामाहतस्य" - इति सर्वत्र विशेषणाच्च।
न ह्यमुक्तस्य अकामहतत्वं मुख्यं भवति। न च मुख्या श्रोत्रियता।
"यस्य श्रुतिफलं पूर्णं स श्रोत्रिय उदाहृतः। स हि मुक्तोऽकामहतः स हि कामैर्न हन्यते॥
यस्य कामास्तु सत्याः स्युस्सहि कामैर्न हन्यते। न ह्यकामः क्वचित् कश्चित् दृश्यते श्रूयतेऽपि च॥"
इति ब्रह्माण्डे।
न च देवपदाकामस्य सकाशात् इन्द्रपदाकामस्य शतगुणानन्दो दृश्यते। सति च प्राजापत्यादिकामे। न च मानुषाः प्रायस्तदिच्छवः। चक्रवर्तिनस्तु युवशब्देनैव मुक्तत्वमुक्तम्। तस्मात् मुक्तविषयेयं मीमांसा।
"यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि स्थिताः" - इत्यत्राप्यन्तःकरणस्थानामेव कामानां विमोक्ष उक्तः। न तु स्वरूपभूतानाम्।
"यं यमन्तमभिकामो भवति सोऽस्य सङ्कल्पादेव भवति" - इति मुक्तानामपि स्वरूपभूतः कामः प्रतीयते।
"कामाः सङ्कल्प आनन्दो मुक्तानां तारतम्यतः। स्वरूपभूतास्ते सर्वे निर्दोषा गुणरूपकाः॥"
इति पाद्मे।
"सङ्कल्पादेव च तच्छ्रुतेः" - इति सूत्रम्।
"भेदव्यपदेशात्" इति जीवेशयोर्भेदश्चोक्तो भगवता। न च भेददर्शनमसुकरम्। स्वरूपत्वात् भेदस्य। सर्वव्यावृत्तं हि सर्वस्य स्वरूपं सर्वैरनुभूयते।
अन्यथा "अहं वा दृष्टोऽन्यो वा दृष्टः" - इत्यपि संशयः स्यात्।
न च पश्चात् भेदो ज्ञायत इत्यत्र किङचन्मानम्। न हि दृष्टवस्तुनः पुरुषस्य तस्य वस्त्वन्तराद् भेदे संशयः क्वचिद् दृष्टः। न च सर्वतो व्यावृत्यनुभवे सर्वज्ञता अपेक्षितेति दोषः।
सामान्यतः सर्वस्य सर्वैरपि ज्ञातत्वात्। यावत्तु सर्वतो भेदो विशेषतो न ज्ञायते तावत् स्वरूपमेव विशेषतो न ज्ञातम्। न हि ज्ञाताद्वस्तुनोऽव्यावृत्तिः केनचित् शङ्क्यते।
यदा तु संशीयते तदाऽपि कुतश्चिद् व्यावृत्तमेव ज्ञायते। न हि सर्वमिदं भवति वा न वेति कस्यचित् संशयः। अतो व्यावृत्तिरेव स्वरूपम्।
अस्य भेद इति विशेष्यत्वमस्य स्वरूपमितिवत्।
यथाऽस्तीति वर्तमानः कालो वस्तुना सहैवानुभूयते एवमन्यस्मात् व्यावृत्तमित्यत्र अन्यदपि सामान्यतः सहैवानुभूयते।
न ह्यस्तीति वर्तमानकालापेक्षया अनुभूयात इत्येतावता विद्यमानता नाम वस्तुनोऽन्या।
सदित्यपि शत्रन्तत्वात् कालसम्बन्ध्येवाऽनुभूयते तिष्ठन्नितिवत्। एवमन्यस्माद् व्यावृत्तमित्यन्येन सह प्रतीयमानमपि न स्वरूपादन्यत्।
अस्माद् व्यावृत्तिरन्यस्य स्वरूपम्। अन्यस्माद् व्यावृत्तिरस्य स्वरूपमिति नैकस्वरूपता।
ज्ञानानन्दादिवत् स्वरूपत्वेऽपि व्यवहारविशेषो भवति। न च स्वरूपत्वेन भेदस्याभावो भवति। ज्ञानान्दादिवदेव। अन्यप्रतियोगिकत्वाद् भेदस्य न स्वस्मादपि भवति।
"भेदस्तु सर्ववस्तूनां स्वरूपं नैजमव्ययम्। नष्टानामपि वस्तूनां भेदो नैव विनश्यति॥ अवस्तुनोऽपि रूपं स्वं भेद एव न चान्यथा। विशेषरूपनाशेन भेदमात्रावसायिता॥
नाश इत्युच्यते सद्भिः भेदो न हि विनश्यति। इत्याहुः केचिदज्ञानात् तत्राहुः सूक्ष्मदर्शिनः॥ सत्यं भेदस्तु वस्तूनां स्वरूपं नात्र संशयः। तस्माद् वस्तुविनाशे तु तद्भेदो नास्ति कुत्रचित्॥
अविनष्टस्य तस्मात्तु भेदोऽस्त्येव स्वरूपतः। एवं भावादभावस्य न भेदो भावरूपवान्॥ अभावाद् भावरूपस्य स्वरूपं भाव इष्यते। नष्टभेदोऽप्यभावात्मा विद्यते च विनाशतः॥
स्वरूपत्वात्तु भेदस्य भेदे शङ्का न कस्यचित्। सर्वं सामान्यतो यस्मात् सर्वैरप्यनुभूयते॥ तस्माद् व्यावृत्तता सर्वैः सर्वस्मादनुभूयते। प्रतियोगिता त्वभावस्याप्यस्त्यभावतया स्फुटम्॥
न ह्यभावोऽप्यधर्मा स्यान्न तु स्याद् भावधर्मयुक्। अभावस्यास्तिता नाम स्यादेवाभावरूपिणी॥
अभावतापि सैव स्यात् न तु स्याद्भावरूपिणी। अतः स सर्वव्यावृत्तस्वरूपो भगवान् परः॥ येन ज्ञातः स तु ज्ञानी मुच्यते नात्र संशयः॥"
इति तत्त्वनिर्णये॥
॥ इति द्वितीया ब्रह्मवल्ली समाप्ता ॥२॥