Taittirīyopaniṣat Bhāṣyam (तैत्तिरीयोपनिषत् भाष्यम्)
Taittirīyopaniṣat 02.18-26
ते ये शतं मनुष्यगन्धर्वाणामानन्दाः। स एको देवगन्धर्वाणामानन्दः। श्रोत्रियस्य चाकामहतस्य ॥१८॥
ते ये शतं देवगन्धर्वाणामानन्दाः। स एकः पितॄणां चिरलोकलोकानामानन्दः। श्रोत्रियस्य चाकामहतस्य ॥१९॥
ते ये शतं पितॄणां चिरलोकलोकानामानन्दाः। स एक आजानजानां देवानामानन्दः। श्रोत्रियस्य चाकामहतस्य ॥२०॥
ते ये शतमाजानजानां देवानामानन्दाः। स एकः कर्मदेवानामानन्दः। ये कर्मणा देवानपियन्ति। श्रोत्रियस्य चाकामहतस्य ॥२१॥
ते ये शतं कर्मदेवानां देवानामानन्दाः। स एको देवानामानन्दः। श्रोत्रियस्य चाकामहतस्य ॥२२॥
ते ये शतं देवानामानन्दाः। स एक इन्द्रस्यानन्दः। श्रोत्रियस्य चाकामहतस्य ॥२३॥
ते ये शतमिन्द्रस्यानन्दाः। स एको बृहस्पतेरानन्दः। श्रोत्रियस्य चाकामहतस्य ॥२४॥
ते ये शतं बृहस्पतेरानन्दाः। स एकः प्रजापतेरानन्दः। श्रोत्रियस्य चाकामहतस्य ॥२५॥
ते ये शतं प्रजापतेरानन्दाः। स एको ब्रह्मण आनन्दः। श्रोत्रियस्य चाकामहतस्य ॥२६॥
Taittirīya Bhāshya 02.18-26
"तेभ्यः शतगुणानन्दा देवप्रेष्यास्तु मुख्यतः। ये ते हि देवगन्धर्वा मुक्तेभ्यस्तेभ्य एव च॥
शताधिका हि पितरस्तेभ्य आजानदेवताः। अनाख्याता देवतास्तु जाता देवकुले च याः॥
आजानदेवता स्ता हि ताभ्योऽग्र्याः कर्मदेवताः। बल्याद्या अन्तराप्राप्तदेवताः कर्मदेवताः॥
ताभ्यश्च तात्त्विका देवाः सृष्ट्यादौ देवतां गताः। तेभ्यो दक्षश्चेन्द्रनामा स हीन्दुं रारयत् पुरा॥
तस्मात् बृहस्पतिर्नाम महेन्द्रत्वात् पुरन्दरः। तस्मात् प्रजापतिर्मुक्तो रुद्रः प्रजननेशिता॥
तस्माद् ब्रह्मा शतगुणो मुक्त इत्येष निर्णयः। यथाऽऽनन्दे तथा ज्ञाने विष्णुभक्तौ बलाधिके॥
सर्वैर्गुणैः शतगुणाः क्रमेणोक्तेन तेऽखिलाः। अथवा सहस्रगुणिता अनन्तगुणितास्तथा॥
परिमाणे शतगुणेऽप्यानन्दस्फुटतावशात्। यथा दीपात् शतगुणाऽप्यग्निज्वाला न दीपवत्॥ स्फुटीभवेद् यथैवाग्निर्बहुलोऽपि न सूर्यवत्। यथैव सूर्याद् द्विगुणश्चन्द्रो नैव स्फुटीभवेत्॥ उत्तरेषामुत्तरेषां गुणा एवमतिस्फुटाः। प्रतिबिम्बा यतः पूर्वे ब्रह्मान्तानां नरादयः॥ अतोऽस्पष्टस्वरूपास्ते स्फुटरूपास्तथोत्तराः॥"

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Source and Copyright: The Sanskrit works of Madhvacharya reproduced here are ancient public-domain texts. Digital Sanskrit sources are acknowledged wherever applicable. The English translations, explanatory notes and original editorial material on madhva.in are © Madhukrishna Sudhindra, unless otherwise indicated.