Taittirīyopaniṣat Bhāṣyam (तैत्तिरीयोपनिषत् भाष्यम्)
Taittirīyopaniṣat 02.16
यदा ह्येवैष एतस्मिन्नदृश्ये अनात्म्ये अनिरुक्ते अनिलयने अभयं प्रतिष्ठां विन्दते। अथ सोऽभयं गतो भवति। यदा ह्येवैष एतस्मिन्नुदरमन्तरं कुरुते। अथ तस्य भयं भवति। तत्त्वेव भयं विदुषोऽमन्वानस्य॥
तदप्येष श्लोको भवति। भीषास्माद् वातः पवते। भीषोदेति सूर्यः। भीषाऽस्मादग्निश्चेन्द्रश्च। मृत्युर्धावति पञ्चम इति ॥१६॥
Taittirīya Bhāshya 02.16
"तस्माददृश्ये जैवानां गुणानामप्यसङ्गतेः। अनात्म्येऽथ गुणानन्त्यादनिरुक्ते निराश्रयात्॥ अनिलयनेऽभयत्वेन यदा ज्ञानेन तिष्ठति। तदाऽभयं हरिं गच्छेन्नैवाज्ञानी कथञ्चन॥
यदैतस्मिन् परे विष्णावुदरं जीवगत्वतः। भेदं करोति तेनैव भयमस्य महद् भवेत्॥
आ इत्युक्तः परो विष्णुरेभ्य उच्च स एव तु। त उदा जीवसङ्घाः स्युरुदरं तद्गतान्तरम्॥ तदेव ब्रह्म भयकृद् विदुषोऽविदुषस्तथा। विदुषोऽल्पभयं कुर्याद् यावन्मुक्तिं व्रजत्यसौ॥
अथाभयं भवेद् ब्रह्म तस्य मुक्तस्य सर्वदा। तस्माद् वाय्वादयो देवा विद्वांसोऽपि विशेषतः॥
भीताः स्वकर्म कुर्वन्ति विष्णोः प्रीत्यर्थमञ्जसा। अमन्वानस्य नुर्विष्णुः कुर्यान्नित्यं महद्भयम्॥ तमआख्यमनुत्थानम् .... ॥"

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Source and Copyright: The Sanskrit works of Madhvacharya reproduced here are ancient public-domain texts. Digital Sanskrit sources are acknowledged wherever applicable. The English translations, explanatory notes and original editorial material on madhva.in are © Madhukrishna Sudhindra, unless otherwise indicated.