Taittirīyopaniṣat Bhāṣyam (तैत्तिरीयोपनिषत् भाष्यम्)
Taittirīyopaniṣat 02.15
तदप्येष श्लोको भवति। असद्वा इदमग्र आसीत्। ततो वै सदजायत। तदात्मानग्ग् स्वयमकुरुत। तस्मात् तत् सुकृतमुच्यत इति। यद्वै तत् सुकृतम्। रसो वै सः। रसग्ग् ह्येवायं लब्ध्वाऽऽनन्दीभवति। कोह्येवान्यात् कः प्राण्यात्। यदेष आकाश आनन्दो न स्यात्। एष ह्येवानन्दयाति ॥१५॥
Taittirīya Bhāshya 02.15
अनासाद्यस्त्वसन्नामा पूर्वं नारायणाभिधः। स आसाद्यश्च सन्नामा वासुदेवोऽभवत् प्रभुः॥
स वासुदेवः स्वात्मानं चक्रे सङ्कर्षणादिकम्। तस्मात् तत् सुकृतं नाम स आनन्दो रसस्ततः॥
आनन्दमेनं सम्प्राप्य मुक्तो मोदेन्न चान्यथा। आदीप्तस्त्वेष भगवान् यद्यानन्दो भवेन्न च॥
सामान्यचेष्टा धर्म्याश्च कस्य स्युस्तमृते प्रभुम्। सुखं लब्ध्वा हि कुरुते लोकचेष्टां जनार्दनः॥
अल्पात् सुखादल्पकर्मा पूर्णानन्दादि्ध सर्वकृत्। न ह्यार्ताः कर्म कुर्वन्ति मुग्धाश्चैव विशेषतः॥
तस्माद् यादृक् सुखं तादृक् कर्म पूर्णसुखत्वतः। सर्वकृत्त्वात् परो विष्णुः आह तस्मात् सनातनी॥
सुखं लब्ध्वा करोतीति च्छन्दोगानां श्रुतिः परा। अलब्ध्वा तु सुखं नैव करोतीत्यपि सादरम्॥
तत्पूर्णानन्ददेवेन कारितः प्राणिति स्फुटम्। सर्वलोकः स एवैक आनन्दयति चाखिलम्॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2025, Incredible Wisdom.
All rights reserved.