Taittirīyopaniṣat Bhāṣyam (तैत्तिरीयोपनिषत् भाष्यम्)
Taittirīyopaniṣat 02.14
सोऽकामयत। बहु स्यां प्रजायेयेति। स तपोऽतप्यत। स तपस्तप्त्वा। इदं सर्वमसृजत। यदिदं किञ्च। तत् सृष्ट्वा। तदेवानुप्राविशत्। तदनुप्रविश्य। सच्चत्यच्चाभवत्। निरुक्तं चानिरुक्तं च। निलयनं चानिलयनं च। विज्ञानं चा विज्ञानं च। सत्यं चानृतं सत्यमभवत्। यदिदं किञ्च। तत् सत्यमित्याचक्षते ॥१४॥
Taittirīya Bhāshya 02.14
"अज्ञो नैव तदाप्नोति ज्ञान्येवैतदवाप्नुते। इति ज्ञापयितुं विष्णोः स्वातन्त्र्यज्ञापनाय तु॥
आह सृष्टिं प्रवेशं च माहात्म्यज्ञानतो यतः। प्रीतिं यान्ति महान्तस्तु तद्वशा एव चेश्वराः॥
अग्न्यादयोऽपि किमुत तदन्ये मुक्तिदस्ततः। स एवैकस्स विज्ञेयः पूर्णैश्वर्यादिरूपवान्॥ इति तस्य महैश्वर्यमुच्यते स त्वकामयत्।
सृष्ट्वा जगदिदं सर्वं नियामकतयाऽस्य तु॥ बहुरूपो भवानीति स्याज्जगच्चेत्यचिन्तयत्।
स्यादित्यालोचनान्नान्यत् तपो विष्णोः कदाचन॥ अवतारेष्वनुकृतिः बाह्यवृत्या तपस्विनाम्। सृष्टिर्नाम स्वरूपात्तु बहिर्निष्क्रमणं स्मृतम्॥
यद्यपीदं जगत्सर्वं स्वोदरस्थं महात्मनः। तथाऽप्येष द्वितीयेन रूपेण बहिराक्षिपेत्॥
रूपान्तरेणाविशच्च जगत्सर्वं जनार्दनः। त्यच्चानिरुक्तं विज्ञानं तथा निलयनं महान्॥
सत्यं प्राणस्तथा श्रीश्च सन्निरुक्तं तथाऽनृतम्। अविज्ञानं चानिलयनं प्रकृतिप्राणयोः परम्॥
तद्गविष्णोस्तु सम्बन्धात् स्वतस्तन्नामको हरिः। ततो नियामकश्चेति त्यदानन्त्यादवाच्यतः॥
अनिरुक्तं निलयनं सर्वाधारत्वतो हरिः। विज्ञानं सर्वविज्ञानात् सत्यं साधुस्वरूपतः॥
अवसाद सुवाच्यत्वदौर्बल्याज्ञप्त्यसाधुताः। प्रकृतिप्राणतोऽन्यत्र कुर्वंस्तन्नामको हरिः॥ अतः साधुस्वरूपस्सन् सत्यनामाऽनृतादिकम्। नामानेन गतत्वादेः यदिदं किञ्च भाषितम्॥
सन्निरुक्तादिशब्देन तत् सर्वं साधुतैव हि। अवसादनादिहेतुत्वं साधुतैव हि सर्वशः॥ असाधुताऽवसादादिस्तत्कर्तृत्वं हि भाषितम्॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Source and Copyright: The Sanskrit works of Madhvacharya reproduced here are ancient public-domain texts. Digital Sanskrit sources are acknowledged wherever applicable. The English translations, explanatory notes and original editorial material on madhva.in are © Madhukrishna Sudhindra, unless otherwise indicated.