Taittirīyopaniṣat 01.13
भूर्भुवस्सुवरिति वा एतास्तिस्रो व्याहृतयः तासा मु ह स्मैतां चतुर्थीम्। माहाचमस्यः प्रवेदयते। मह इति। तद् ब्रह्म। स आत्मा। अङ्गान्यन्या देवताः ॥१३॥
Taittirīya Bhāshya 01.13
"यो विश्वरूपो भगवान् छन्दसामधिपो हरिः। छन्दोभ्योऽमृतरूपेभ्यः सुव्यक्तस्तदुपासनात् ॥ मेधावी तत्त्वविज्ञानी भूत्वा क्षिप्रं विमुच्यते॥"
इति च।
"वेदावासत्वतो विष्णुः ब्रह्मकोश इति स्मृतः। भगः षड्गुणपूर्णत्वात् बहुरूपत्वतो विभुः॥ सहस्रशाख इत्युक्तस्तमुपास्य जनार्दनम्। मुच्यते नात्र सन्देहः सर्वभोगैश्च युज्यते॥"
इति प्रक्लृप्ते।
"आवहन्ती चिरं सर्वभोगान् या श्रीस्सनातनी। तां मय्यावह गोविन्द सुशिखण्डोपशोभिताम्॥"
इति च ॥१२॥
भूरादि व्याहृतीभिस्तु वाच्यं मूर्तिचतुष्टयम्। अनिरुद्धादिकं वासुदेवान्तं देहमध्यगः॥
वासुदेवो महोनामा त्वनिरुद्धश्शिरो मतः। भूर्नामाथ भुवोनामा बाहू प्रद्युम्न ईरितः॥
सङ्कर्षणस्सुवर्नामा पादौ तस्य महात्मनः। अनन्योऽप्यन्यशब्देन चतुरात्मा प्रकीर्त्यते॥
निर्विशेषोऽपि भगवान् सङ्ख्यामात्रविशेषतः ॥१३॥