Shaṭpraśnopaniṣat Bhāshya (षट्प्रश्नोपनिषद्भाष्यं)
Shat.Upa 04.04
अत्रैष देवः स्वप्ने महिमानमनुभवति। यद्दृष्टं दृष्टमनुपश्यति श्रुतं श्रुतमेवार्थमनुशृणोति देशदिगन्तरे च प्रत्यनुभूतं पुनः पुनः प्रत्यनुभवति। दृष्टं चादृष्टं च श्रुतं चाश्रुतं च अनुभूतं चाननुभूतं च सच्चासच्च सर्वं पश्यति सर्वः पश्यति। स यदा तेजसाऽभिभूतो भवत्यत्रैष देवः स्वप्नान् न पश्यति। अथ यदेतस्मिन् शरीरे सुखं भवति ॥४॥
Bhāṣya 04.04
भगवतः शरीरवत्सादृश्ययुक्ते जीवे सुखं भवति।
कस्यैतत्सुखं भवतीति पृष्टत्वात्। नह्यचेतनस्य शरीरस्य सुखं भवति।
"यस्यात्मा शरीरम्"
इति च श्रुतिः।
सादृश्याद्देहवज्जीवो विष्णोस्तस्य सुखं भवेत्। सुप्तौतस्य सुखार्थं हि भगवान् सुप्तिमानयेत्॥
इति च॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2025, Incredible Wisdom.
All rights reserved.