Shaṭpraśnopaniṣat Bhāshya (षट्प्रश्नोपनिषद्भाष्यं)
Shat.Upa 04.02
तस्मै स होवाच।
यथा गार्ग्य मरीचयोश्चर्कस्यास्तं गच्छतः सर्वा एतस्मिन् तेजोमण्डले एकी भवन्ति ताः पुनरुदयतः प्रचरन्त्येवं ह वै तत्सर्वं परे देवे मनस्येकीभवन्ति। तेन तर्ह्येष पुरुषो न शृणोति न पश्यति न जिघ्रति न रसयते न स्पृशते नाभिवदते नादत्ते नानन्दयते न विसृजते नेयायते स्वपितीत्याचक्षते ॥२॥
Bhāṣya 04.02
रश्मीनामविशेषेऽपि ह्यन्यदृष्टिव्यपेक्षया। सूर्यस्य मण्डलं यान्तीत्युच्यन्ते तददर्शनात्॥ एवं विष्णोस्तु सामीप्याद्देवानां सुप्तिगस्य तु। व्यवहाराकरत्वाच्च एकीभाव इतीर्यते॥
इति च॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Source and Copyright: The Sanskrit works of Madhvacharya reproduced here are ancient public-domain texts. Digital Sanskrit sources are acknowledged wherever applicable. The English translations, explanatory notes and original editorial material on madhva.in are © Madhukrishna Sudhindra, unless otherwise indicated.