Pramāṇalakṣaṇam - (प्रमाणलक्षणम्)
Pramāṇalakṣaṇam (प्रमाणलक्षणम्)
प्रमाणलक्षणम्
अशेषगुरुमीशेशं नारायणमनामयम् । सम्प्रणम्य प्रवक्ष्यामि प्रमाणानां स्वलक्षणम् ॥
यथार्थं प्रमाणम् । तद् द्विविधम् । केवलमनुप्रमाणं च । यथार्थज्ञानं केवलम् । तत्साधनमनुप्रमाणम् ।
केवलं चतुर्विधम् । ईश-लक्ष्मी-योगि-अयोगिभेदेन । पूर्वद्वयम् अनादिनित्यम् । स्वातन्त्र्य-पारतन्त्र्याभ्यां तद्विशेषाः । पूर्वं स्वपरगताखिलविशेषविषयम् । द्वितीयम् ईशेऽन्येभ्योऽधिकम् । असार्वत्रिकम् । अन्यत्र सर्वविषयम् । स्पष्टत्वे भेदः ।
योगिज्ञानम् ऋजूनामनादिनित्यम् । ईशे जीवेभ्योऽधिकम् । अन्यत्राऽलोचने सर्वविषयम् । क्रमेण वर्धमानम् । आ मुक्तेः । ततोऽव्ययम् । ततोऽर्वाक् क्रमेण ह्रसितम् । सादि च तात्त्विकेभ्योऽन्यत्र । अयोगिज्ञानम् उत्पत्तिविनाशवत् । अल्पम् ॥
अनुप्रमाणं त्रिविधम् । प्रत्यक्षम् अनुमानम् आगम इति । निर्दोषार्थेन्द्रियसन्निकर्षः प्रत्यक्षम् । निर्दोषोपपत्तिरनुमानम् । निर्दोषः शब्द आगमः । अर्थापत्त्युपमे अनुमाविशेषः । अभावोऽनुमा प्रत्यक्षं च । परामर्श-अपरामर्शविशेषात् । सम्भवपरिशेषावनुमा ।
आत्मान्योन्याश्रय-चक्रका-अनवस्था-कल्पनागौरव-श्रुतदृष्टहानादयो दूषणानुमा । उपक्रम-उपसंहार-तदैकरूप्य-अभ्यासा-अपूर्वता-फल-अर्थवादाश्च उपपत्तिविशेषाः । त एव सोपपत्तयो लिङ्गानि । समाख्यावाक्यप्रकरणस्थानानि च लिङ्गविशेषाः ।
व्याप्तिरुपपत्तिमूलम् । सा प्रतिज्ञा-हेतु-दृष्टान्तरूपा । हेतुगर्भा प्रतिज्ञा केवलाऽपि । सिद्धौ प्रतिज्ञायां हेतुमात्रं च । दृष्टान्तः सप्रतिज्ञो हेतुगर्भः ।
उपपत्तिदोषौ विरोध-असङ्गती । न्यूनाधिके वाचनिके । संवादानुक्तियुता निग्रहाः ।
प्रत्यक्षं सप्तविधम् । साक्षिषडिन्द्रियभेदेन । मानसप्रत्यक्षजा स्मृतिः । स्मृत्यनुवादयोर्नाप्रामाण्यम् । यथार्थत्वानुभवात् । अहानेश्च । विरोधो मानस्ववाक्याभ्याम् । स्ववाक्यविरोधोऽपसिद्धान्तजातिरूपेण । जातिः
‘न मेये मानापेक्षा’
इत्यादिका ।
‘मेये मानापेक्षाऽस्ति’
इति च तेनैव न्यायेन सिद्धत्वात् । मानविरोधश्च । छलम् असङ्गतम् । अन्यच्च । गृष्टिविवक्षया
‘गाम् आनय’
इत्युक्ते पृथिवीविवक्षया
‘गवानयनम् अशक्यम्’
इतिवत् ।
त्रिविधो विरोधः । प्रतिज्ञा-हेतु-दृष्टान्तभेदेन । प्रमाणविरुद्धार्थप्रतिज्ञा प्रतिज्ञाविरोधः । हेतुस्वरूपासिद्धिरव्याप्तिश्चेति हेतुविरोधः । साध्यस्य साधनस्य वा अननुगमो दृष्टान्तविरोधः । प्रतिज्ञायाः समबलविरोध एव सप्रतिसाधनः । स एवोपाधिदोषोऽपि ।
सर्व एते दृश्यत्वानुमाने द्रष्टव्याः ।
प्रत्यक्षागमादिभिर्जगतः सत्यत्वात् । तत्पक्षे दृश्यत्वस्य च मिथ्यात्वात् । अनिर्वचनीयस्य प्रतिवादिनोऽसिद्धत्वात् । आत्मनोऽपि दृश्यत्वात् । शुक्तिरजतादेरनिर्वचनीयत्वाभावात् । अनिर्वचनीयदृश्यत्वाभावात् । मानसिद्धत्वादिति सप्रतिसाधनत्वाच्च । जगत्सत्यत्वग्राहिप्रत्यक्षस्य वर्तमानग्राहित्वे अनुमानागमप्रामाण्यग्राहिणोऽपि प्रत्यक्षत्वाविशेषाद् उत्तरक्षणे प्रामाण्यं न सेत्स्यति इति भेदादिवाक्यानामेव प्रामाण्यं स्यात् । तस्य साक्षिसिद्धत्वं चेत्, जगत्सत्यत्वमपि साक्षिसिद्धम् ।
व्यभिचारश्चेद् आगमार्थानुमा निर्दोषत्वाध्यवसाये च समः । अत उत्तरदिवसे अभेदवाक्यस्य भेदोऽर्थः स्यात् । निर्दोषानुमायाः सदोषत्वम् । सदोषानुमाया निर्दोषत्वम् इत्यव्यवस्था ।
आश्रयसाध्यव्यधिकरणासिद्धयो न दूषणम्, अतिप्रसङ्गाभावात् । अतिप्रसङ्गेन हि दोषत्वादोषत्वे कल्प्ये । व्याप्तिरेव हि प्रयोजिका । असत्यपि व्याप्तिरस्त्येव ।
‘असदाश्रयस्य साधकत्वं न’
इत्यपि व्याप्तिं विना कथं निवार्यते ।
असदाश्रयम् इत्यादिविशेषणत्वसम्भवे कथमव्याप्तिः । न चात्यन्ताभावोऽपि सर्वधर्मरहितः । प्रमेयत्वाद्यनुभवात् । परिशेषार्थापत्तिप्रामाण्याभ्युपगमाच्च ।
‘विमतं सकर्तृकम्’
इत्यत्र सर्वज्ञत्वस्य पक्षधर्मताबलेन सिध्यङ्गीकारात् ।
परिशेषोऽर्थापत्तिरनुमानमित्यविशेषः । उपपत्तिमात्रत्वात् । उपपत्तेश्च व्याप्त्यपेक्षा सर्वथाङ्गीकार्येत्याग्रहमात्रेण भेदः । उपमानस्यापि व्याप्तिरूपत्वात् । न हि स्वसदृशेनासदृशं क्वचिद् दृष्टम् । योग्यानुपलब्धेश्च लिङ्गत्वम्, अविशेषात् ।
उक्तदोषेष्वेव अशेषानुमानदोषाणामन्तर्भावः । साध्याविशिष्टोऽसिद्धः । सिद्धसाधकोऽसङ्गतः । न प्रमासाधनं प्रमाणम् । ज्ञानव्यतिरिक्तायां प्रमायां प्रमाणाभावात् । न चाज्ञातपरिच्छित्तिरेव प्रमा इत्यत्र किञ्चिन्मानम् । याथार्थ्यमेव प्रामाण्यमित्यङ्गीकारात् ।
न चानुभूतिरेव प्रमाणम् । स्मृत्यादावव्याप्तेः । वेदानुमानादिप्रामाण्यप्रसिद्धेश्च ।
‘स्मृतिः प्रत्यक्षमैतिह्यमनुमानं चतुष्टयम् ।प्रमाणमिति विज्ञेयं धर्माद्यर्थे बुभूषुभिः ॥’
इति श्रुतेश्च ।
ऐतिह्यमागमभेदः । न च सम्यगनुभवसाधनं प्रमाणम् । ईश्वरज्ञानादावव्याप्तेः । अप्रामाण्ये प्रमाणाभावाच्च । प्रामाण्यज्ञाने च । तत्राप्यङ्गीकारेऽनवस्थितेः । स्वप्रकाशात्माङ्गीकारे तत्राव्याप्तेः । स्मृतेश्च प्रामाण्यानङ्गीकारे
‘अनुभूतं मया’
इत्यत्र प्रमाणाभावात् । लिङ्गत्वेन प्रामाण्ये कल्पनागौरवात् । दृष्टहानिश्च ।
स्मृतिप्रमाणद्वैविध्यमात्रकल्पने मिथ्याज्ञानादेर्निरासादनुभवविरोधः ।
‘तदनुभवाभावः’
इत्युक्ते
‘अनुभवः स्मृतिश्च नास्ति’
इत्युक्ते किमुत्तरम् ?
स्वसिद्धैः साधनं परसिद्धैर्दूषणम् । अतो न दूषणे अपसिद्धान्तादि । इष्टापत्तिः सिद्धसाधनत्वादसङ्गतमेव ॥
आनन्दतीर्थमुनिना ब्रह्मतर्कोक्तिमार्गतः । मानलक्षणमित्युक्तं सङ्क्षेपाद् ब्रह्मसिद्धये ॥
अशेषमानमेयैकसाक्षिणेऽक्षयमूर्तये । अजेशपुरुहूतेड्य नमो नारायणाय ते ॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितं प्रमाणलक्षणम् ॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Source and Copyright: The Sanskrit works of Madhvacharya reproduced here are ancient public-domain texts. Digital Sanskrit sources are acknowledged wherever applicable. The English translations, explanatory notes and original editorial material on madhva.in are © Madhukrishna Sudhindra, unless otherwise indicated.