Māndukyōpanishad Bhāshya
Māndukya 4.07
अमात्रोऽनन्तमात्रश्च द्वैतस्योपशमः शिवः। ओङ्कारो विदितो येन स मुनिर्नेतरो जनः। स मुनिर्नेतरो जन इति ॥७॥
Bhāshya 4.07
"तुरीयं नादनामानं हरिं ज्ञात्वा परं पदम्। तमेव प्रविशेच्छुद्धरूपी तत्सदृशात्मवान्॥
ज्ञानानन्दौ च शक्तिश्च तथापि न समाः क्वचित्। विमुक्तस्यापि जीवस्य पारतन्त्र्यं च नित्यदा॥
चतूरूपस्यास्य विष्णोर्नाम प्रणव इत्यपि। जाग्रदादिप्रणयनात् स एव ब्रह्म बृंहणात्॥
ओमित्याक्रियमाणत्वादोङ्कारः स प्रकीर्तितः। आदिमत्वादयो ह्यर्था ओमित्यस्य श्रुतौ श्रुताः॥
अपूर्वः कारणाभावान्नाशाभावादनन्तरः। पराधीनस्थित्यभावादनपर उदाहृतः॥ सर्वगत्वादबाह्यश्च तं ज्ञात्वा प्रविमुच्यते॥"
इति च॥
"परत्वमपरत्वं च विष्णोरेकस्य वै यदा। श्रूयते नतु सामर्थ्यभेदस्तत्र कथञ्चन॥ अवतारस्य पूर्वत्वात् पौर्वापर्यमुदाहृतम्॥"
इति ब्रह्मतर्के।
पूर्वावतारे पश्चिमावतारेऽपि पूर्ण एवेति प्रणवो ह्यपरं ब्रह्मेत्यादेरर्थः॥
एकोऽपि निर्विशेषोऽपि चतुर्धा व्यवहारभाक्। यस्तं वन्दे चिदात्मानं विष्णुं विश्वादिरूपिणम्॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितं माण्डूक्योपनिषद्भाष्यं समाप्तम् ॥
॥ इति चतुर्थः खण्डः ॥
॥ इति श्रीमाण्डूक्योपनिषत् समाप्ता॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2025, Incredible Wisdom.
All rights reserved.