Māndukya 4.07
अमात्रोऽनन्तमात्रश्च द्वैतस्योपशमः शिवः। ओङ्कारो विदितो येन स मुनिर्नेतरो जनः। स मुनिर्नेतरो जन इति ॥७॥
Bhāshya 4.07
"तुरीयं नादनामानं हरिं ज्ञात्वा परं पदम्। तमेव प्रविशेच्छुद्धरूपी तत्सदृशात्मवान्॥
ज्ञानानन्दौ च शक्तिश्च तथापि न समाः क्वचित्। विमुक्तस्यापि जीवस्य पारतन्त्र्यं च नित्यदा॥
चतूरूपस्यास्य विष्णोर्नाम प्रणव इत्यपि। जाग्रदादिप्रणयनात् स एव ब्रह्म बृंहणात्॥
ओमित्याक्रियमाणत्वादोङ्कारः स प्रकीर्तितः। आदिमत्वादयो ह्यर्था ओमित्यस्य श्रुतौ श्रुताः॥
अपूर्वः कारणाभावान्नाशाभावादनन्तरः। पराधीनस्थित्यभावादनपर उदाहृतः॥ सर्वगत्वादबाह्यश्च तं ज्ञात्वा प्रविमुच्यते॥"
इति च॥
"परत्वमपरत्वं च विष्णोरेकस्य वै यदा। श्रूयते नतु सामर्थ्यभेदस्तत्र कथञ्चन॥ अवतारस्य पूर्वत्वात् पौर्वापर्यमुदाहृतम्॥"
इति ब्रह्मतर्के।
पूर्वावतारे पश्चिमावतारेऽपि पूर्ण एवेति प्रणवो ह्यपरं ब्रह्मेत्यादेरर्थः॥
एकोऽपि निर्विशेषोऽपि चतुर्धा व्यवहारभाक्। यस्तं वन्दे चिदात्मानं विष्णुं विश्वादिरूपिणम्॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितं माण्डूक्योपनिषद्भाष्यं समाप्तम् ॥
॥ इति चतुर्थः खण्डः ॥
॥ इति श्रीमाण्डूक्योपनिषत् समाप्ता॥