Māndukyōpanishad Bhāshya
Māndukya 2.05
द्वैतस्याग्रहणं तुल्यमुभयोः प्राज्ञतुर्ययोः। बीजनिद्रायुतः प्राज्ञः सा च तुर्ये न विद्यते ॥५॥
Bhāshya 2.05
"निद्रायुतास्तु विश्वाद्यास्तदधीना यतो हि सा। यथा भृत्ययुतः स्वामी न ह्यज्ञानं परात्मनः॥"
इति च।
"अभेदमपि तद्ब्रह्म बहुरूपं विशेषतः। करोति न करोतीति व्यवहार्यं स्वशक्तितः॥"
इति च।
न संवेदयतीति अस्वीकारे। "तुर्यं तत् सर्वदृक् सदा द्वैतस्याग्रहणं तुल्यमुभयोः प्राज्ञतुर्ययोः" इति च विरुद्धम्। द्वैतग्रहणाकारणत्वं तुल्यमित्यर्थः।
"द्वैतं न ग्राहयेत् तुर्यो न च प्राज्ञः कथञ्चन। द्वैतग्रहणबीजं तु निद्रा प्राज्ञं समाश्रिता॥"
इति प्रकटश्रुतिः।

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2025, Incredible Wisdom.
All rights reserved.