5. Explanation of the remaining Brāhmaṇa passage and of the Ṛgvedic verses (शिष्टस्य ब्राह्मणस्य ऋचां च व्याख्यानम्)
“उद्यद् ब्रध्नस्य विष्टपमित्युत्तमया परि दधाति स्वर्गो वै लोको ब्रध्नस्य विष्टपं स्वर्गमेव तं लोकं यजमानं गमयत्यपाः पूर्वेषां हरिवः सुतानामिति यजति सर्वेभ्यो वा एष सवनेभ्यः सन्निर्मितो यत् षोळषी तद् यदपाः पूर्वेषां हरिवः सुतानामिति यजति पीतवद् वै प्रातःसवनं प्रातःसवनादेवैनं तत् सन्निर्मिमीतेऽथो इदं सवनं केवलं त इति माध्यन्दिनं वै सवनं केवलं माध्यन्दिनादेवैनं तत् सवनात् सन्निर्मिमीते ममद्धि सोमं मधुमन्तमिन्द्रेति मद्वद्वै तृतीयसवनं तृतीयसवनादेवैनं तत् सन्निर्मिमीते सत्रा वृषन् जठर आवृषस्वेति वृषण्वद्वै षोळषिनो रूपं सर्वेभ्यो वा एष सवनेभ्यः सन्निर्मितो यत् षोळषी तद् यदपाः पूर्वेषां हरिवः सुतानामिति यजति सर्वेभ्य एवैनं तत् सवनेभ्यः सन्निर्मिमीते सर्वेभ्यः सवनेभ्यः सन्निर्मितेन षोळशिना राध्नोति स एवं वेद।”
उ॒द्यद् ब्र॒ध्नस्य॑ वि॒ष्टपं॑ गृ॒हमिन्द्र॑श्च गन्व॑हि। मध्वः॑ पी॒त्वा स॑चेवहि॒ त्रिः स॒प्त सख्युः॑ प॒दे॥
ब्रध्नस्य सूर्यस्य विष्टपं स्वर्गं उद्गन्वहि इन्द्रो अहं च। यत् तदिन्द्रगृहं ब्रध्नविष्टपं मध्वः पीत्वा तत्र सचेवहि सुखमनुभवाव। सख्युः इन्द्रस्य त्रिःसप्तस्थानेषु।
“एकविंशति दिव्यानि स्थानानि दिवि चक्रिणः। वज्रिणो वाऽपि तद्भक्तैर्भुज्यन्ते तानि याज्ञिकैः॥”
इति प्रवृत्ते।
अपाः॒ पूर्वे॑षां हरिवः सु॒ताना॒म॑थो इ॒दं सव॑नं॒ केव॑लं ते।म॒म॒द्धि सोमं॒ मधु॑मन्तमिन्द्र स॒त्रा वृ॑षञ् ज॒ठर॒ आ वृ॑षस्व॥
पूर्वान् सुतान् प्रातःसवनगान् सोमान् अपाः। हरीन्= इन्द्रियाणि वर्तयतीति हरिवः, हरिभिर्वर्तत इति वा। इदं माध्यन्दिनं सवनं केवलं ते। अथो इत्यर्थान्तरम्। मधुमन्तं सोमं जठर आवृषस्व आसिञ्च। ममद्धि च। सत्रा अस्मत्त्राणेन सह।
पीतशब्दवत्। अपूर्वपानत्वात् तदेव पानं मुख्यमिति पीतशब्दः। इन्द्रस्य केवलत्वात् केवलं माध्यन्दिनं सवनम्। ममद्धीति तृतीयसवनम्। तत्र हि मदो विशेषतो भवति पूर्तेः। इति सवनत्रयरूपता षोळशिनः। वृषण्वत् वृष्ण इन्द्रस्य विशेषतः प्रियत्वात्। एवं चतूरूपता षोळशिनः। राध्नोति ऋद्धो भवति।
“अथातश्छन्दास्येव व्यति षजत्या त्वा वहन्तु हरय उपो षु शृणुही गिर इति गायत्रीश्च पङ्क्तीश्च व्यति षजति गायत्रो वै पुरुषः पाङ्क्ताः पशवः पुरुषमेव तत् पशुभिर्व्यति षजति पशुषु प्रति ष्ठापयति यदु गायत्री च पङ्क्तिश्च ते द्वे अनुष्टुभौ तेनो वाचो रूपादनुष्टुभो रूपाद् वज्ररूपान्नैति यदिन्द्र पृतनाज्येऽयं ते अस्तु हर्यत इत्युष्णिहश्च बृहतीश्च व्यति षजत्यौष्णिहो वै पुरुषो बार्हताः पशवः पुरुषमेव तत् पशुभिर्व्यति षजति पशुषु प्रतिष्ठापयति यदुष्णिक् च बृहती च ते द्वे अनुष्टुभौ तेनो वाचो रूपादनुष्टुभो रूपाद् वज्ररूपान्नैत्या धूर्ष्वस्मै ब्रह्मन् वीर ब्रह्मकृतिं जुषाण इति द्विपदां च त्रिष्टुभं च व्यतिषजति द्विपाद् वै पुरुषो वीर्यं त्रिष्टुप् पुरुषमेव तद् वीर्येण व्यति षजति वीर्ये प्रति ष्ठापयति तस्मात् पुरुषो वीर्ये प्रतिष्ठितः सर्वेषां पशूनां वीर्यवत्तमो यदु द्विपदा च विंशत्यक्षरा त्रिष्टुप् च ते द्वे अनुष्टुभौ तेनो वाचो रूपादनुष्टुभो रूपाद् वज्ररूपान्नैत्येष ब्रह्मा प्र ते महे विदथे शंसिषं हरी इति द्विपदाश्च जगतीश्च व्यति षजति द्विपाद् वै पुरुषो जागताः पशवः पुरुषमेव तत् पशुभिर्व्यति षजति पशुषु प्रति ष्ठापयति तस्मात् पुरुषः प्रतिष्ठितोऽत्ति चैनानधि च तिष्ठति वशे चास्य यदु द्विपदा च षोळशाक्षरा जगती च ते द्वे अनुष्टुभौ तेनो वाचो रूपादनुष्टुभो रूपाद् वज्ररूपान्नैति त्रिकद्रुकेषु महिषो यवाशिरं प्रो ष्वस्मै पुरोरथमित्यतिच्छन्दसः शंसति च्छन्दसां वै यो रसोऽत्यक्षरत् सोऽतिच्छन्दसमभ्यत्यक्षरत् तदतिच्छन्दसोऽतिच्छन्दस्त्वं सर्वेभ्यो वा एष च्छन्दोभ्यः सन्निर्मितो यत् षोळशी तद् यदतिच्छन्दसः शंसति सर्वेभ्य एवैनं तच्छन्दोभ्यः सन्निर्मिमीते सर्वेभ्यश्छन्दोभ्यः सन्निर्मितेन षोळशिना राध्नोति य एवं वेद।”
विहृतपक्षे तु-
“पादान् व्यवधायार्द्धर्चशः शंसेत् पूर्वासां पूर्वाणि पदानि गायत्र्यः पङ्क्तिभिः पङ्क्तीनां तु द्वेद्वे पदे शिष्येते ताभ्यां प्रणुयादुष्णिहो बृहतीभिरुष्णिहां तूत्तमान् पादान् द्वौद्वौ कुर्याच्चतुरक्षरमाद्यं द्विपदाश्चतुर्धा कृत्वा प्रथमां त्रिष्टुभोत्तरा जगतीभिरुत्तमायाश्चतुर्थमक्षरमन्त्यं पूर्वस्याद्यमुत्तरस्यानुष्टुभमतिच्छन्दस्स्ववदध्यात् द्वितीयतृतीययोस्तृतीययोः पादयोरवसानत उपदध्यात् प्रचेतनेति पूर्वस्यां प्रचेतयेत्युत्तरस्यामुत्तरास्वितरान् पादान् षष्ठान् कृत्वाऽनुष्टुप्कारं शंसेत्।”
महानाम्नीनां पञ्चाक्षरानुपसर्गानुपसृजत्येकादशाक्षरेषु पादेषु सर्वेभ्यो वा एष च्छन्दोभ्यः सन्निर्मितो यत् षोळषी तद्यन्महानाम्नीनां पञ्चाक्षरानुपसृजत्येकादशाक्षरेषु पादेषु सर्वेभ्य एवैनं तच्छन्दोभ्यः सन्निर्मिमीते सर्वेभ्यश्छन्दोभ्यः सन्निर्मितेन षोळशिना राध्नोति य एवं वेद।
महानाम्नीनां पञ्चाक्षरानुपसर्गानुपसृजत्येकादशाक्षरेषु पादेषु -
“एवाह्येवा अपाः पूर्वेषां हरिवः सुतानाम्,एवाहीन्द्रँ अथो इदं सवनं केवलं ते, एवाहि शक्रो ममद्धि सोमं मधुमन्तमिन्द्र, वशी हि शक्रः सत्रा वृषञ्जठर आवृषस्वेति।”
5.1. ज्ञानभक्त्यादिसहितस्यैव कर्मणः साफल्यम्
भगवद्भक्तिज्ञानवैराग्यपूर्वकं च कर्म कर्तव्यम्।
“इष्टापूर्तं मन्यमाना वरिष्ठं नान्यच्छ्रेयो वेदयन्ते प्रमूढाः। नाकस्य पृष्ठे ते सुकृतेऽनुभूत्वा इमं लोकं हीनतरं वा विशन्ति॥” - आथर्वणोपनिषत् १/२/१०
“नैष्कर्म्यमप्यच्युतभाववर्जितं न शोभते ज्ञानमलं निरञ्जनम्। कुतः पुनः शश्वदभद्रमीश्वरे नचार्पितं कर्म यदप्यकारणम्॥” - भागवतम् १/५/१२
“यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम्। स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः॥” - भगवद्गीता १८/४६
“त्रैविद्या मां सोमपाः पूतपापा यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते। ते पुण्यमासाद्य सुरेन्द्रलोकमश्नन्ति दिव्यान् दिवि देवभोगान्॥” - भगवद्गीता ९/२०
“मयि सर्वाणि कर्माणि सन्न्यस्याध्यात्मचेतसा। निराशीर्निर्ममो भूत्वा युद्ध्यस्व विगतज्वरः॥ ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः। श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः॥ ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम्। सर्वज्ञानविमूढांस्तान् विद्धि नष्टानचेतसः॥” - भगवद्गीता ३/३०-३२
“तपस्विनो दानपरा यशस्विनो मनस्विनो मन्त्रविदः सुमङ्गलाः। क्षेमं न विन्दन्ति विना यदर्पणं तस्मै सुभद्रश्रवसे नमोनमः॥” - भागवतम् २/४/१६
“एष उ एव दाश्वान्य एवं वेद”, “यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति” - छान्दोग्योपनिषत् १/१/८
“परं भावमजानन्तो मम भूतमहेश्वरम्।मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः॥” - भगवद्गीता ९/११-१२
“सर्वगुह्यतमं भूयः शृणु मे परमं वचः। इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम्॥ मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु। मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे॥” - भगवद्गीता १८/६४-६५
“विज्ञानमानन्दं ब्रह्म रातिर्दातुः परायणम्। तिष्ठमानस्य तद्विदः” - बृहदारण्यकोपनिषत् ५/९/३४
इत्यादिश्रुतिस्मृतिभ्यः।