Karmanirṇayaḥ (कर्मनिर्णयः))
4. Explanation of the remaining portion of the ritual recitation. (शस्त्रशेषव्याख्यानम्)
प्रप्र॑ वस्त्रि॒ष्टुभ॒मिषं म॒न्दद्वी॑रा॒येन्द॑वे। धि॒या वो॑ मे॒धसा॑तये॒ पुर॒न्ध्याऽऽवि॑वासति॥ १॥
प्रप्र वः। हे ऋत्विजः प्रजा वा, वस्त्रिष्टुभमिषं त्रिष्टुभाख्यमन्नमिन्द्रः परमेश्वरः सोमाय आविवासति। पुरन्ध्या धिया अशेषप्राणिदेहाश्रयया स्वबुद्ध्या प्रप्र प्रकर्षेणप्रकर्षेण, अतितरां शंस्यमाना त्रिष्टुप् प्रीतिं करोति सोमपानार्थमित्यर्थः। मन्दद्वीराय तस्य वीरस्य परमेश्वरस्य मन्दं प्रीतिं करोतीति मन्दद्वीरः सोमः। नत्वात्मप्रयोजनाय प्रीतिं करोति। किन्तर्हि? वो मेधसातये यज्ञसिद्ध्यर्थम्। वः इति गुरुत्वादीश्वरं प्रत्येव वा बहुवचनम्। तदा वः अन्नं त्रिष्टुभं वो मेधसातये भवद्दैवत्ययज्ञसिद्ध्यर्थं भवान् प्रप्राविवासति इत्यर्थः॥
न॒दं व॒ ओद॑तीनां न॒दं योयु॑वतीनाम्। पतिं॑ वो॒ अघ्न्या॑नां धेनू॒नामि॑षुध्यसि॥ २॥
नदं वः।
ओदतीनाम् उन्दनकर्त्रीणां वः अपां भवदीयानां पतिं वः पुरुषं प्राणं नदं नदनकर्तारं प्रति इषुध्यसि पतिर्भवसि। सृष्टौसृष्टौ योयः प्राणस्तन्तं प्रति पतिर्भवसीति नदम् इति पुनर्वचनम्। योयुवतीनां गमनशीलानाम् आकाशे पोप्लूयमानानाम् अघ्न्यानां धूमरूपेणादाह्यानां रेतोरूपेणाजराणां वा, धेनूनां जगत्पोषकाणाम्।
“धिनु पुष्टौ”
इति धातोः।
“ता नदेन विहरति” - ऐतरेयारण्यकम् १/३/५
इत्यादिश्रुतेः।
पयसा सेचकानां देशाद् देशान्तरगमनशीलानाम् अघ्न्यानां हन्तुमयोग्यानां धेनूनां गवां पतिं वायुं प्रति इषुध्यसि इति वा।
“वायुर्वाव गवां पतिः”
इति श्रुतेः।
धेनुशब्दाच्च।
ओदतीनां भक्त्या सेचकानां योयुवतीनाम् अतिशयेनात्मतत्त्वावगमकानाम् अघ्न्यानां नित्यानां धेनूनां धर्मार्थकाममोक्षपोषकाणां वाचां पतिं वायुं प्रति पतिर्भवसीति वा।
“वाचं धेनुमुपासीत।तस्याश्चत्वारः स्तनाः।स्वाहाकारो वषट्कारो हन्तकारः स्वधाकार इति।तस्या द्वौ स्तनौ देवा उपजीवन्ति स्वाहाकारं च वषट्कारं च।हन्तकारं मनुष्याः।स्वधाकारं पितरः।तस्याः प्राण ऋषभो मनो वत्सः” - बृहदारण्यकोपनिषत् ७/१०/१
इत्यादिश्रुतिभ्यः।
ता अ॑स्य॒ सूद॑दोहसः॒ सोमं श्रीणन्ति॒ पृश्न॑यः। जन्म॑न् दे॒वानां॒ विश॑स्त्रि॒ष्वारोच॒ने दि॒वः॥ ३॥
ताः। ताः पृश्नयः आपो गावो वाचो वा अस्य सूददोहसः प्राणस्य वायुस्थस्य परमेश्वरस्य सोमं श्रीणन्ति। अद्भिर्हि संसृष्टो भवति सोमः, पयआदिना वा श्रुतो भवति, मन्त्रैर्वा गृह्यते।
“अथ सूददोहाः प्राणो वै सूददोहाः” - ऐतरेयारण्यकम् १/४/१
इति श्रुतिश्च।
शोभनम् उदं= कर्म ज्ञानं वा दोग्धीति सूददोहाः। उदेति= उच्चो भवति अनेन पुरुष इत्युदं= ज्ञानादि।
“मनो वाव सोमः।”
तद् वाचः श्रीणन्ति स्वार्थैः। प्रश्नयोग्यत्वात् पृश्नयो वाचः। प्रशंसनरूपत्वात् प्रशंसनीयत्वाद् वा। प्रशंसनीयत्वमेवापां गवां च। देवानां जन्मनि यज्ञे। तत्र हि तेषामभिव्यक्तिः। पूर्वं ज्ञाने वा। विशः प्रजाश्च श्रीणन्ति। मुख्यतस्त एव श्रीणन्तीति चशब्दवर्जनम्। दिवस्त्रिषु आरोचनेषु आदित्यचन्द्रविद्युत्पर्यन्तं स्थितानां देवानां जन्मनि।
“यज्ञो वै देवजन्म तत्र हि देवाः प्रादुर्भवन्त्या सूर्याचन्द्रमसावा विद्युतं ते वै लोकानधिश्रिताः”
इत्यादिश्रुतेः।
“द्यौर्वाव विद्युत् तत्पतिं वायुमुपगम्य तेनैव परमुपगच्छति सैषा ब्रह्मलोके विराजते”
इत्यादिश्रुतेर्द्यौरेव विद्युत्।
अर्च॑त॒ प्रार्चत॒ प्रिय॑मेधासो॒ अर्च॑त।अर्च॑न्तु पुत्र॒का उ॒त पुरं॒ न धृ॒ष्ण्वर्च॑त॥ ४॥
अर्चत। अर्चनं यज्ञादि। प्रार्चनं ज्ञानध्यानादि।
“श्रेयान् द्रव्यमयाद् यज्ञाज्ज्ञानयज्ञः परन्तप” - भगवद्गीता ४/३३
इति भगवद्वचनात्।
प्रिययज्ञाः अर्चत, प्रियज्ञानाः प्रार्चत। पुत्रकाः अल्पज्ञाना अप्यर्चत।
“न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम्। जोषयेत् सर्वकर्माणि विद्वान् युक्तः समाचरन्॥” - भगवद्गीता ३/२६
इति च।
उतशब्दाज्ज्ञानिनामप्यर्चनं युक्तं स्वाश्रमानुसारेणेति।
“अधा ते विष्णो विदुषा चिदर्घ्यः स्तोमो यज्ञश्च राध्यो हविष्मता” - ऋग्वेदसंहिता १/१५६/१
इति श्रुतेः।
किं तदर्चनीयम्? धृष्णु धृष्टं परं ब्रह्म वासुदेवाख्यम्। पुरं देहं नार्चत।
“प्रत्युद्गमप्रश्रयणाभिवादनं विधीयते साधु मिथः सुमध्यमे। प्राज्ञैः परस्मै पुरुषाय चेतसा गुहाशयायैव न देहमानिने॥” - भागवतम् ४/३/२२
इति भागवते।
“सदेहमानिहरये प्रणमेत् केवलाय वा। न देहाय न तन्मानपराय च कथञ्चन॥”
इति व्यासस्मृतौ।
पुनः “अर्चत” इति तात्पर्यार्थे।
अव॑ स्वराति॒ गर्गरो गो॒धा परि॑ सनिष्वणत्। पिङ्गा॒ परि॑ चनिष्कद॒दिन्द्रा॑य॒ ब्रह्मोद्य॑तम्॥ ५॥
गर्गरगोधापिङ्गादीनां घोषा अपि नादमात्रव्यञ्जकत्वेन भगवद्वाचका एवेत्याह- अव स्वराति गर्गर इत्यादिना॥
एतत् समस्तम् इन्द्राय एवेत्यर्थः। ब्रह्म वेदो विशेषत इन्द्रायैवोद्यतः। गर्गरः इति पादभूषण-महामत्रक-दधिपात्र-हस्तिहस्तानां नाम। पिङ्गा चकोरी। ‘अव’, ‘परि’ इत्यल्पाधिक्यादिविशेषोऽपि तद्वाचक एवेति ज्ञापनाय। चनिष्कदत् इत्यनुकरणशब्दः। सनिष्वणत् इत्यतिशयार्थे।
“ता वा एताः सर्वा ऋचः सर्वे वेदाः सर्वे घोषा एकैव व्याहृतिः प्राण एव प्राण ऋच इत्येव विद्यात्” - ऐतरेयारण्यकम् २/२/२
इति श्रुतिः।
“दध्नो मथनशब्दश्चाप्यन्तर्नादस्वरूपतः। भीषकत्वं हरेर्ब्रूयादन्तर्नादो हि भीषणे। गजबृंहितमप्येवं धिक्कारसहितं वदेत्। स्वरितेन समायोगाद् धिक्कृतौ स्वरितो यतः। महामत्रं जलाद्यैश्च युक्तमेतादृशं वदेत्। पादभूषा च धिक्कारं तत्कृतंस्वरितं वदेत्। अद्भुतत्वं हरेर्वक्ति पिङ्गा कण्ठगशब्दवत्। तामेवाद्भुततां वक्ति गृहगोधा पराऽपि च॥”
इति शब्दतत्त्वे।
आ यत् पत॑न्त्ये॒न्यः॑ सु॒दुघा॒ अनपस्फुरः। अ॒प॒स्फुरं॑ गृभायत॒ सोम॒मिन्द्रा॑य पात॑वे॥ ६॥
यत् च एन्यः नद्यः आपतन्ति तद्घोषश्चेन्द्रवाचकः।
“नदीसमुद्रघोषाश्च नादत्वाच्छ्रैष्ठ्यवाचकाः। नादो हि श्रैष्ठ्यवाची स्यादेवं घोषाः परेऽपि च॥”
इति।
तदर्थं च नद्य आपतन्ति।
“भूतादिभूतोऽम्बुनिधानमध्ये भूत्वा हरिः सर्वहरोऽतिधाम्ना। अगाधमम्भो विदधाति भस्म यो बाडवाग्निर्नृहरिर्विचिन्त्यः॥”
इति वैहायससंहितायाम्।
सुदुघाः सुष्ट्वपां दोहनकर्त्र्यः। स्फुरणापगमनमासां नास्तीति अनपस्फुरः नित्यचलनस्वभावाः। अपगतस्फुरणत्वेन सोमं गृभायत। अचलत्वेन मनो वा॥
यो व्यतीँ॒रफा॑णय॒त् सुयु॑क्ताँ॒ उप दा॒शुषे। त॒क्वो ने॒ता तदिद्वपु॑रुप॒मा यो अमु॑च्यत॥ ७॥
व्यतीन् विशेषेणाधिकान् देवान् अफाणयत् विस्तारयामास। दाशुषे यजमानाय तत्समीपे।
“फण विस्तारे”
इति धातोः।
सुयुक्तान् सुयोगरतान्।
“विशेषेणाधिकत्वेन व्यतयो देवताः स्मृताः। नित्ययोगरताश्चैव नारायणपरायणाः। त एव चेन्द्रियात्मानस्तान् विस्तारयतीश्वरः। मनआदीन्द्रियाणां तु शक्तिविस्तार एव तु। विस्तारो देवतानां स्याद् भक्तेषु हरिणा कृतः॥”
इति प्रकाशसंहितायाम्।
“चतुर्भिः साकं नवतिं च नामभिश्चक्रं न वृत्तं व्यतीँरवीविपत्” - ऋग्वेदसंहिता १/१५५
इति श्रुतिः।
“स मेन्द्रो मेधया स्पृणोतु।अमृतस्य देव धारणो भूयासम्। शरीरं मे विचर्षणम्।जिह्वा मे मधुमत्तमा।कर्णाभ्यां भूरि विश्रुवम्” - तैत्तिरीयोपनिषत् १/७
इति च।
“न देवा यष्टिमादाय रक्षन्ति पशुपालवत्। यं तु रक्षितुमिच्छन्ति बुद्ध्या संयोजयन्ति तम्॥” - भारतम् ५/३५/५१
इति भारते।
तक्वो जगत्कर्ता।
“तक निर्माणे”
इति धातोः।
“न वर्तवे प्रसवःसर्गतक्तः” - ऋग्वेदसंहिता ३/३३/४
इत्यादिप्रयोगाच्च।
नेता च सर्वस्य।[56] तत् एव वपुः सः। यत् तत् जगत्कर्तृनेतृरूपम्।
“देहदेहिविभागश्च न क्वचित् परमेश्वरे। गुणतद्वद्विभागो वा नेह नानेतिच श्रुतेः॥”
इति पाद्मे।
“तद् विज्ञानेन परिपश्यन्ति धीरा आनन्दरूपममृतं यद् विभाति” - आथर्वणोपनिषत् २/२/१०
“सद्देहः सुखगन्धश्च ज्ञानभाः सत्पराक्रमः। ज्ञानज्ञानः सुखसुखः स विष्णुः परमोऽक्षरः॥”
इत्यादिश्रुतेश्च।
“विशुद्धविज्ञानमरीचिमालयासचित्ररत्नप्रकरप्रकाशया। प्रकाशिताशेषजगत्स्वरूपया प्रभुः सदाऽऽह्लादतनुर्विभूषितः॥”
इति पुरुषोत्तमसंहितायाम्।
उपमा उपमायाम् उपमाविषये अमुच्यत त्यक्तोऽभवत्। निरुपम इत्यर्थः।
“अल्पाक्षरेण शक्येऽपि वक्तुं बह्वक्षरं यदि। उक्तस्याधिक्यमेवात्र निषेधेऽशेषतो भवेत्॥”
इति शब्दनिर्णये।
अतीदु॑ श॒क्र ओ॑हत॒ इन्द्रो॒ विश्वा॒ अति॒ द्विषः॑। भि॒नत् क॒नीन॑ ओद॒नं प॒च्यमा॑नं प॒रो गि॒रा॥ ८॥
विश्वा विश्वान् द्विषः अज्ञानपापादीन् अतीत्य शक्तो विष्णुः स्वभक्तानतिवहत्येव हि।
“यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वाम्” - आथर्वणोपनिषत् ३/२/३
“तेषामहं समुद्धर्ता मृत्युसंसारसागरात्। भवामि नचिरात् पार्थ मय्यावेशितचेतसाम्॥” - भगवद्गीता १२/७
इत्यादिप्रसिद्धिमुशब्देनाह।
द्विषः अतीत्य, अतिशयेनात्मानं प्रत्योहत इत्यतिशब्दद्वयार्थः। ओदनम् उन्दतेः कर्मबन्धनम्। अभिनद् भगवान् कानीनो बादरायणः, परः परमात्मा, गिरा एव पच्यमानं परिपाककाले।
“संश्लेषादोदनं कर्म पच्यमानं गिरैव हि। अभिनद् भगवान् व्यासः स्वभक्तानामशेषतः॥”
इति व्याससंहितायाम्।
अ॒र्भ॒को न कु॑मार॒कोऽधि॑ तिष्ठ॒न् नवं॒ रथ॑म्।सप॑क्षन्महि॒षं मृ॒गं पि॒त्रे मा॒त्रे वि॑भु॒क्रतु॑म्॥ ९॥
अर्भकः इव स्थितः। नवं रथम् अध्यतिष्ठत्। कुमारकः कुत्सितमारकः। अर्भक इव सूक्ष्मदेहः पूर्वम्पूर्वं देहं परित्यज्य नवन्नवं देहमध्यतिष्ठज्जीवमादाय।
“जीवदेहं परित्यज्य सह जीवेन चेश्वरः। जीवस्यान्यशरीरं[67]च समुत्पाद्य विशत्यजः॥”
इति मान्यसंहितायाम्।
कुमारकः इव अर्भकः सूक्ष्मदेह इति वा। अर्भकः सूक्ष्मदेहोऽपि न कुमारकः इति वा। सपक्षत् परिपक्वज्ञानादिगुणमकरोत्। महिषं महान्तं ब्रह्माणम्। मृगं मृगयन्तं स्वात्मानम्। पित्रे स्वस्मै मात्रे लक्ष्म्यै विभुक्रतुं पितृमातृविषये पूर्णज्ञानं पुनः पूरयामासेत्यर्थः।
“ज्ञानपूर्णं विधातारं मोक्षदानेन केशवः।स्वपुत्रं पूरयामास महिषं महतां महान्॥”
इति प्रवृत्ते।
“प्रप्र वस्त्रिष्टुभमिषमर्चत प्रार्चत यो व्यतीँरफाणयदिति प्रज्ञाता अनुष्टुभः शंसति। तद् यथेह चेह चापथेन चरित्वा पन्थानं पर्यवेयात् तादृक् तद् यत् प्रज्ञाता अनुष्टुभः शंसति।”
यथास्थिताः प्रज्ञाताः। इतस्ततः संयोजनं विना यथास्थितशंसनं पथः प्राप्तिः।
“स यो व्याप्तो गतश्रीरिव मन्येताविहृतं षोळशिनं शंसयेन्नेच्छन्दसां कृच्छ्रादवपद्या इत्यथ यः पाप्मानमपजिघांसुः स्याद् विहृतं षोळशिनं शंसयेद् व्यतिषक्त इव वै पुरुषः पाप्मना व्यतिषक्तमेवास्मै तत् पाप्मानं शमलमप हन्त्यप पाप्मानं हते य एवं वेद।”
व्याप्तो विशेषेणापन्नः। अविहृतम् असंसृष्टम्। कृच्छ्रात् अयथास्थितशंसननिमित्ताद् दुःखादवाग्गतिं गतश्रीकतामेव न प्राप्नुयाम्।
“विलोमः शत्रुजयकृत् संसर्गः पापनाशनः।यथास्थितः श्रीकरः स्यात् स्वाध्यायः शंसनेऽपिच॥”
इति प्रवृत्ते।
“गतश्रियः श्रियोऽहानिं पापहानिं परस्य च।संसर्गश्छन्दसां कुर्याच्छ्रियो वृद्धिं यथास्थितः॥”
इति स्वाध्यायतत्त्वे।
“किञ्चित्त्वे चोभयत्त्वे च संशये सदृशे तथा।इवशब्दः प्रयुज्येत न्यक्कारेऽपिच पण्डितैः॥”
इति शब्दनिर्णये।
अतो गतश्रीत्वसंशयेऽपीत्यर्थः।
इतस्ततो विशेषेण संहृतं संयोजितं विहृतम्।
“पापानां व्यतिषक्तत्वाद् व्यतिषक्तं विनाशकम्। धनस्याव्यतिषङ्गेण व्यतिषङ्गोऽविनाशकः। सदृशं सदृशस्यैव यतः स्यात् प्रविनाशकम्। तथाऽप्यप्राप्तनाशस्य धनस्य बलवत्त्वतः। शक्नुयान्न विनाशाय पापस्येच्छासमेधितम्। संसृष्टं स्याद् विनाशाय नहीच्छा धनसङ्क्षये॥”
इति स्वाध्यायतत्त्वे।
अव्यतिषक्तत्वं च मोक्षे वर्तत इत्यत्रोभयार्थ इवशब्दः। एवम्भूतेन शंसनेन पाप्मानमपहन्ति। शमलं रागादिकं च। पापस्य पृथगुक्तेः।
“शमलं पापमुद्दिष्टं रागद्वेषादिकं तथा। अपराधश्च शमलं मलं च शमलं विदुः॥”
इति शब्दनिर्णये।
य एवम् उपास्ते सोऽपि पाप्मानमपहन्ति।
“ऋक्षु संसृज्यमानासु प्रोच्यमानं जनार्दनम्। पुंसंसृष्टस्य पापस्य निहन्तारं विशेषतः। तत्प्रसादेन मुक्तस्य पापासंसृष्टतामपि। ध्यायन् कर्माणि कृत्वाऽपि मुच्यते सर्वपातकैः॥”
इति प्रवृत्ते।
4.1. मीमांसकादिमतनिरासः
नचैवमादिवाक्यानां स्वार्थे प्रामाण्याभावः। सिद्धार्थे प्रामाण्यस्य साधितत्वात्। अविरोधाच्च। नच बह्वर्थेषु तात्पर्यकल्पने कल्पनागौरवम्। वचनेनैव प्रतीयमानत्वादर्थस्य कल्पनाभावात्।
नच वाचनिकस्तात्पर्यार्थ इति विशेषः। तन्मानाभावात्। यत्र वाचनिकार्थादन्यस्तात्पर्यार्थः प्रतीयते लौकिकवाक्येषु, न तत्र साक्षाद् वचनं बोधकम्। वचनलिङ्गकानुमा हि सा। विरोधादमुख्यवृत्तिर्वा, आप्तत्वनिश्चये। आप्तत्वानिश्चये प्रामाण्यमेव न भवति। वेदवाक्यस्य तु वाचनिकार्थं विना नैवान्यो युज्यते। वाचनिकानां तु बहूनामप्यविरोधे स्वीकार्यता।
“स्वाप्ययसम्पत्त्योरन्यतरापेक्षमाविष्कृतं हि” - ब्रह्मसूत्रम् ४/४/१६
इति सूत्रम्।
“वानात् सूतेर्देवनाद् वासुदेवो वासाद् द्युतेश्छादनात् क्रीडया च। बलादसुत्वाद् दातृतो वर्तनाच्च तं वासुदेवं प्रवदन्तिवेदाः॥”
इत्यादि सौकरायणश्रुतिः।
मोक्षेऽपि सुप्तिरस्तीत्याशङ्कानिवृत्त्यर्थमेवान्यतरपदम्।
“रूढियोगौ विना कश्चिन्नैवार्थो वेदगो भवेत्।तत्रापि यौगिको मुख्यः सर्वत्रास्ति स वैदिके। अनवस्थानिवृत्त्यर्थं यौगिकेरूढकल्पना। ज्ञाते विशेषविज्ञानं व्यवहारोऽपि रूढितः॥”
इति ब्रह्मतर्के।
वाचनिकमर्थं परित्यज्य नियोगार्थकल्पने श्रुतहानिरश्रुतकल्पनेति सर्वदोषाधिकौ तस्य व्यर्थमापद्येते। एवञ्च वदतो विधिशब्दा निरर्थकाः सिद्धार्था वा, सिद्धशब्दा वा स्वार्थे प्रमाणभूता इत्युक्ते किमुत्तरम्? नच कारणं किञ्चिद् वाचनिकानां बहूनामप्यर्थानां त्यागे। प्रतीयमाने तु विरोधे तदन्योऽर्थः स्वीकार्यो वाचनिक एव। सोऽपि वाचनिक एवेत्यपि तत एव सिद्ध्यति।
“मुख्यार्थानां च सर्वेषांतारतम्यं च विद्यते। तत्रापि परमो मुख्यो वाच्योऽशेषरवैर्हरिः। तत्तन्मुख्याविरोधेन तदन्यार्थस्य सङ्ग्रहः। स्वतो मुख्यविरोधे तु त्याज्योऽन्योऽर्थोऽखिलेष्वपि। इति सर्वत्र नियमः शब्दार्थज्ञानभूमिषु॥”
इति च।
नच क्रियायामेव प्रयोजनं न सिद्ध इति युक्तम्। ज्ञानमात्रेऽपि महाप्रयोजनदर्शनात् पितृजीवनादिवाक्ये।
आह च स्वयं भगवान्-
“द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च। क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते॥ उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः। यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः॥ यस्मात् क्षरमतीतोऽहमक्षरादपि चोत्तमः। अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः॥ यो मामेवमसम्मूढो जानाति पुरुषोत्तमम्। स सर्वविद् भजति मां सर्वभावेन भारत॥ इति गुह्यतमं शास्त्रमिदमुक्तं मयाऽनघ। एतद् बुद्ध्वा बुद्धिमान् स्यात् कृतकृत्यश्च भारत॥” - भगवद्गीता १५/१६-२०
इति।
“श्रेयान् द्रव्यमयाद् यज्ञाज्ज्ञानयज्ञः परन्तप” - भगवद्गीता ४/३३
इति च।
“ध्यानं त्वखिलकर्मभ्यो ध्यानाच्च ज्ञानमुत्तमम्। न ज्ञानसदृशं किञ्चित् पुरुषार्थप्रसिद्धये॥”
इति प्रवृत्ते।
“दूरेण ह्यवरं कर्म बुद्धियोगाद् धनञ्जय” - भगवद्गीता २/४९
इति च।
“अशेषकर्मपूगोऽपि न विष्णुध्यानलेशभाक्। तच्च ध्यानं हरेर्ज्ञानकोट्यंशाय न पूर्यते॥”
इति कर्मविवेके।
“तमेवं विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते” - तैत्तिरीयारण्यकम् ३/१२/७
इति च श्रुतिः।
नच कर्ममात्रे पर्यवसितिर्वेदस्य। सुखज्ञानस्यैव प्रयोजनत्वात्। अतः सिद्धस्यैव प्रयोजनत्वं वाच्यम्।
प्रशंसादीनां च तात्पर्यं वाचनिकार्थात्यागेनैव कथितं स्वयं भगवता-
“भाक्तं वाऽनात्मवित्त्वात् तथाहि दर्शयति” - ब्रह्मसूत्रम् ३/१/७
इति।
तस्माद् विरुद्धवत् प्रतीयमानानि प्रशंसादीनि ज्ञानसहकार्यपेक्षया योजनीयानि। पुराणादीनां तु श्रुत्यादिविरोधे गौणोऽप्यर्थो युज्यते।
“कुहकं चेन्द्रजालं च विरुद्धाचरणानि च। दर्शयित्वा जनं सर्वं मोहयाशु महेश्वर॥” - वराहपुराणम् ७०/३७
इत्यादि वाराहे।

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Source and Copyright: The Sanskrit works of Madhvacharya reproduced here are ancient public-domain texts. Digital Sanskrit sources are acknowledged wherever applicable. The English translations, explanatory notes and original editorial material on madhva.in are © Madhukrishna Sudhindra, unless otherwise indicated.