3. Exposition of the Mahānāmnī Verses (महानाम्नीनां व्याख्यानम्)
"वि॒दा म॑घवन् वि॒दा गातुमनु॑शंसिषो॒ दिशः॑।शिक्षा॑ शचीनां पते पूर्वी॒णां पु॑रूवसो ॥१॥"
ताश्च विदा मघवन् इत्याद्याः।
हे मघवन् धनवन् यशस्विन् मखपत इति वा।[11]
“तं वा एतंमखवन्तं सन्तं मघवानित्याचक्षते परोक्षेण।परोक्षप्रिया इव हि देवाः प्रत्यक्षद्विषः”, “तेभिरिन्द्रं चोदय दातवे मघम्” - ऋग्वेदसंहिता ९/७५/५
“तन्न आयातु मघाय।यशो वाव मघम्।मघमनु प्रापत्सि”,
“आ मामेतु मघम्।मघमनु प्रापत्सि।धनं वाव मघम्”
इत्यादिश्रुतिभ्यः।
गातुं त्वां स्तोतुम्। विद वेदयेति सामान्यतोऽपेक्षिताशेषवेदनमुक्त्वा तात्कालिकापेक्षितं प्रार्थयति- गातुं विदेति॥ त्वमेव अनुशंसिषो दिशः मार्गान्। आत्मनः स्तुतिप्रकारांस्त्वमेवोपदिशेत्यर्थः। पूर्वीणां भगवत्सम्प्रदायागतानां परमविद्यानामर्थे शिक्ष। शचीनां विद्यानां पते वाचां पत इति वा। पुरूवसो बहुवित्त बहुज्ञानेति वा। बहुषु वसति बहूनामावास इति वा॥
"आ॒भिष्ट्वम॒भिष्टि॑भिः॒ प्रचे॑तन॒ प्रचे॑तय। इन्द्र॑ द्यु॒म्ना॑य न इ॒ष ए॒वा हि श॒क्रः ॥२॥"
आभिरभिष्टिभिः एवम्भूतैस्त्वत्पर्येषणैस्त्वत्प्रार्थनैः कञ्चिन्मदादिकं प्रचेतय प्रबोधय। प्रकृष्टचेतन सर्वज्ञ परमात्मन्। द्युम्नाय ज्ञानाय वित्ताय यशसे वा। इषे अन्नाय च नः प्रबोधय। एतादृशो हि शक्रः। शक्र एव इति वा। शक्तिरतिरूपत्वात् शक्रः॥ २॥
"रा॒ये वाजा॑य वज्रिवः॒ शवि॑ष्ठ वज्रिन्नृ॒ञ्जसे॑। मंहि॑ष्ठ वज्रिन्नृ॒ञ्जस॒ आ या॑हि॒ पिब॒ मत्स्व॑॥ ३॥"
राये वित्ताय वाजाय अन्नाय, वज्रिणम् इन्द्रं वर्तयतीति वज्रिवः, नियामकत्वेन गच्छतीति वा, शविष्ठ बलवत्तम सुखवत्तमेति वा, ऋञ्जसे प्रेरयसि सर्वान्। मंहिष्ठ वज्रिन्नृञ्जस इत्यभ्यासस्तात्पर्यार्थः। मत्स्व मदं कुरु॥ ३॥
"वि॒दा रा॒यः सु॒वीर्यं॒ भुवो॒ वाजा॑नां॒ पति॒र्वशाँ॒अनु॑। मंहि॑ष्ठ वज्रिन्नृ॒ञ्जसे॒ यः शवि॑ष्ठः॒ शूरा॑णाम् ॥४॥"
विद वेदय लम्भय रायः सुवीर्यं च वाजानां प्रजानां पतिः भुवः अभवः।
“प्रजा वै वाजः” - ऐतरेयारण्यकम् २/२/२
इति श्रुतेः।
वशाँअनु यथावशम्।
“वश इच्छायाम्”
इति धातोः, यथावशं यथेच्छम्। शूराणां सकाशाद् बलवत्तमः ॥४॥
"यो मंहि॑ष्ठो म॒घोनां॑ चिकि॒त्वो अ॒भि नो॑ नय। इन्द्रो॑ विदे॒ तमु॑ स्तुषे व॒शी हि श॒क्रः ॥५॥"
मघोनां यशस्विनां महत्तमः चिकित्वः ज्ञातः कर्तरिति वा, नः अभितः सर्वतो नय। इन्द्रो विदे समस्तं व्यजानात्। तम् एव स्तुषे॥ ५॥
"तमू॒तये॑ हवाम॒हे जेता॑र॒मप॑राजितम्। स नः॑ प॒र्षदति॒ द्विषः॒ क्रतु॑श्छ॒न्द ऋ॒तं बृ॒हत् ॥६॥"
ऊतये रक्षायै, अभिप्रायसिद्धये वा। स नो द्विषः शत्रून् अति पारयतु पापानि तमांसि वा। क्रतुः ज्ञानरूपः। छन्दः इच्छारूपः। छन्द्यत्वात्, छादनत्वाद् वा। ऋतम् अशेषशास्त्रावगतम्॥ ६॥
"इन्द्रं॒ धन॑स्य सा॒तये॑ हवामहे॒ जेता॑र॒मप॑राजितम्। स नः॑ प॒र्षदति॒ द्विषः॒ स नः॑ प॒र्षदति॒ स्रिधः॑ ॥७॥"
सातये लब्धये। स्रिधः विनाशान्॥ ७॥
"पूर्वस्य॒ यत् ते॑ अद्रिवः सु॒म्न आ धे॑हि नो वसो। पू॒र्तिः श॑विष्ठ श॒स्यत॒ ईशे॒ हि श॒क्रः ॥८॥"
पूर्वस्य अनादेः सतः ते सकाशाद् यत् सुम्नं सुखं तस्मिन् नः आधेहि। तव पूर्तिः शस्यते॥ ८॥
"नू॒नं तन्नव्यं॒ सन्न्य॑से॒ प्रभो॒ जन॑स्य वृत्रहन्। सम॒न्येषु॑ ब्रवावहै॒ शूरो॒ यो गोषु॒ गच्छ॑ति॒सखा॑ सु॒शेवो॒ अद्व॑याः ॥९॥"
तन्नव्यं स्तुत्यं ब्रह्म तत् सम्यग्घृदि न्यसे जनस्योपदेशेन। त्वत्स्वरूपेषु त्वं चाहं च सं ब्रवावहै। गोषु ज्ञानेषु गच्छति ज्ञानविषयो भवति। सुशेवः सुसुखः समाधिकवर्जितः अद्वयः॥
"ए॒वा ह्ये॒वैवा॑ ह्यग्ना३इ॥१॥ ए॒वा ह्ये॒वैवा॑ ही॒न्द्रँ ॥२॥ ए॒वा ह्ये॒वैवा॑ हि वि॒ष्णा३उ ॥३॥ ए॒वा ह्ये॒वैवा॑ हि पूषन् ॥४॥ ए॒वा ह्ये॒वैवा॑ हि देवाः ॥५॥ ए॒वा हि श॒क्रो व॒शी हि श॒क्रो वशाँ॒अनु॑ ॥६॥"
एवा ह्येवैवा हि इत्यग्न्यादिदेवतानां संवादरूपेणोक्तमर्थमतिशयेनावधारयति। अभ्यासो हि तात्पर्यार्थः। एवं हि एवमेव हीत्यर्थः।
“विनिश्चिते तु संवादे विभागो रङ्ग एव च”
इति शब्दनिर्णये।
अतः अग्ना३इ इत्यादि। एवमेव हि शक्रः। वशाँअनु यथावशं स्वतन्त्रो वर्तत इत्यर्थः॥
"आयो॒मन्या॑य म॒न्यव॒ उपो॒मन्या॑य म॒न्यवे। उ॒पेहि॑ वि॒श्वध॑ ॥१०॥ वि॒दा म॑घवन् वि॒दो३म्॥ ७॥"
“अय पय गतौ”
इति धातोः आयो इत्यायतिः। उपो इतिवदतिशयार्थ ओकारः।
“ओ अतिशये”
इति च सूत्रम्। आयो जानातीत्यायोमन्यः, समीपस्थमपि जानातीत्युपोमन्यः। अन्येषामिन्द्रियाणां पराङ्मुखत्वान्नह्यान्तरं जानन्ति। अयं त्वान्तरमप्यापरोक्ष्येण पश्यति। अयनेन प्राप्यं दूरस्थम् आयो इति वा।
“मनु अवबोधने”
इति धातोर्मन्युरिति ज्ञानी, बाह्यज्ञाय ज्ञानिने आन्तरज्ञाय ज्ञानिने इत्यभ्यासो हि तात्पर्यार्थः। एवंविधं मद्गतं त्वामुद्दिश्यैव उपेहि। विश्वध विश्वधारक। समीपतो दूरतश्च त्वां मन्यमानाय मह्यं मन्यवे ज्ञानाय माम् उपेहि इति वा।
“समीपे दूरतोऽभिज्ञं त्वामुद्दिश्यैव मद्गतम्।एहि विष्णो न मे शक्तिस्त्वदाह्वाने हि मामुप।इति ब्रह्माऽस्तुवद् विष्णुं तन्नाभ्युत्थितपद्मगः॥”
इति पाद्मे।
“समीपे दूरतश्चैव ध्यायन्तं त्वां सदा विभो। मामेहि ज्ञानदानायेत्याह गाधिसुतो हरिम्॥”
इति स्कान्दे।
“ओतमस्मिन् जगद् यस्मादोमित्युक्तो हरिः सदा।तमेव जगदाधारंयतयः पर्युपासते॥”
इति मान्यसंहितायाम्।
3.1. महानाम्नीशब्दार्थसमर्थनम्
“इन्द्रो वा एताभिर्महानात्मानं निरमिमीते” - ऐतरेयब्राह्मणम् ५/७
इत्यस्याप्युक्त एवार्थः।
निर्माणं नामात्मनस्तद्व्याख्यानेन ख्यापनम्। नह्यन्यथा तासां करणत्वं भवति।
“यस्तद् वेद स पितुष्पिताऽसत्”
इति श्रुतिः।
“त्रीणि पदा निहिता गुहासु यस्तद् वेद स पितुष्पिताऽसत्” - महानारायणोपनिषत् २/४
“स्त्रियः सतीस्ताँ उ मे पुंस आहुः पश्यदक्षण्वान्नविचेतदन्धः।कविर्यः पुत्रः स ईमा चिकेत यस्ता विजानात् स पितुष्पिताऽसत्॥” - तैत्तिरीयारण्यकम् अरुणप्रश्नः ५१-५२
इत्यादिश्रुतिभ्यो विज्ञानमेव तन्निर्माणम्।
“इन्द्र एकं सूर्य एकं जजान वेनादेकं स्वधया निष्टतक्षुः” - ऋग्वेदसंहिता ४/५८/४
इत्यादेर्विज्ञापनं वा।
3.2. उपसर्गार्थः
“प्रचेतन”, “प्रचेतय”, “आ याहि पिब मत्स्व”, “क्रतुश्छन्द ऋतं बृहत्”, “सुम्न आ धेहि नो वसो” इत्युपसर्गाः। अंशा अप्यंश्यपेक्षयोपसर्गा भवन्ति। उपसृष्टत्वादुपसर्गाः।
“अन्तर्गतं बहिर्गतं च द्विधा स्यादुपसर्जनम्।हस्तवद्धेतिवच्चैव पदानां चोपसर्गवत्॥”
इति शब्दनिर्णये।
“अधत्तान्यं जठरे प्रेमरिच्यत प्रचेतन” (१)
“दाता राधः स्तुवते काम्यं वसु प्रचेतय” (२)
“अस्माकं बोधि चोदिताऽऽयाहि पिब मत्स्व” (३)
“तं त्वा परिष्वजामहे क्रतुश्छन्द ऋतं बृहत्” (४)
“या ते रातिर्ददिर्वसु सुम्न आ धेहि नो वसो” (५)
इत्युपसृजति।
3.3. प्रशंसावाक्यार्थः
अशेषमहानाम्न्यर्थसंस्मरणपरिज्ञानपूर्वकमुपसर्गसंयोजनं कर्तव्यमित्येतदर्थत्वेन महानाम्नीप्रशंसा क्रियते। अन्यथा तावन्मात्रप्रशंसामृतेऽशेषमहानाम्नीप्रशंसाया व्यर्थत्वात्। तृचविभागेन
“विदा मघवन्---”, “तमूतये---”, “नूनं---”
इति वा तिस्रो महानाम्न्यः।
“प्रथमा या महानाम्नी तद्वाच्यः पार्थिवो हरिः। द्वितीयाया आन्तरिक्ष्यस्तृतीयाया द्युगः प्रभुः॥”
इत्यृक्संहितायाम्।
“तृचास्तिस्रो महानाम्न्यः पञ्चर्चा प्रथमा परा। तृचा द्व्यृचा च निगदैस्तार्तीया सप्तभिर्युता। इति त्रेधा विभागः स्याज्जपध्यानादिकर्मसु॥”
इति च।
“त्रिलोकगेन हरिणा निर्मितः षोळशी क्रतुः। एवं ज्ञात्वा हरिं तं च कर्म कुर्वन् न जायते॥”
इति प्रवृत्ते।
“एवा ह्येवैवा हि” इत्यस्यार्थोऽप्युक्तावधारणरूपत्वात् पूर्वोक्तार्थपरिज्ञानं विना न स्मर्तुं शक्यते। एवं निर्मितेन षोळशिनर्द्धो भवत्येवंवित्।