Karmanirṇayaḥ (कर्मनिर्णयः))
2. Introduction (उपोद्घातः)
२.१. महानाम्नीशब्दार्थः
महानाम्नीनाम् ऋचाम् उपसर्गाः= ये उपसर्जनभूताः, तान् उपसृजति संयोजयति। महन्नाम यास्वृक्षु विद्यते ता महानाम्न्यः। परस्य ब्रह्मणो यन्नामेन्द्रादिकं तन्महार्थत्वान्महत्। महद्धि तत् परं ब्रह्म। अशेषगुणपूर्तेः।
२.२. ब्रह्मणः सगुणत्वसमर्थनम्
तत्रैक आहुरगुणं ब्रह्मेति। न तद् युक्तम्। श्रुतियुक्तिविरोधात्।
तथाहि श्रुतिः-
“सत्यं ज्ञानमनन्तं ब्रह्म” - तैत्तिरीयोपनिषत् २/१
“विज्ञानमानन्दं ब्रह्म” - बृहदारण्यकोपनिषत् ५/९/३४
“यः सर्वज्ञः सर्वविद् यस्य ज्ञानमयं तपः। तस्मादेतद् ब्रह्म नाम रूपमन्नं च जायते॥” - आथर्वणोपनिषत् १/१/९
“दिव्यो ह्यमूर्तः पुरुषः स बाह्याभ्यन्तरो ह्यजः। अप्राणो ह्यमनाः शुभ्रो ह्यक्षरात् परतः परः॥”- आथर्वणोपनिषत् २/१/२
“एतावानस्य महिमा अतो ज्यायांश्च पुरुषः” - ऋग्वेदसंहिता १०/९०/२
“यो नः पिता जनिता यो विधाता धामानि वेद भुवनानि विश्वा” - ऋग्वेदसंहिता १०/८२
“पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते। पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते॥” - बृहदारण्यकोपनिषत् ७/१/१
“सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः। सर्वमिदमभ्यात्तोऽवाक्यनादरः” - छान्दोग्योपनिषत् ३/२/९
“विष्णोर्नु कं वीर्याणि प्र वोचं यः पार्थिवानि विममे रजांसि” - ऋग्वेदसंहिता १/१५४/१
“परो मात्रया तन्वा वृधान न ते महित्वमन्वश्नुवन्ति” - ऋग्वेदसंहिता ७/९९/१
“न ते विष्णो जायमानो न जातो देव महिम्नः परमन्तमाप” - ऋग्वेदसंहिता ७/९९/२
इत्यादिका।
युक्तिश्च। बुद्धिपूर्वं सर्वकर्तृत्वात् सर्वज्ञत्वादयो गुणा युक्ताः।
“कर्तृत्वात् सगुणं ब्रह्म पुरुषं पुरुषर्षभम्” - भागवतम् ३/३३/१२
इति च भागवते।
नच,
“एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा। कर्माध्यक्षः सर्वभूताधिवासः साक्षी चेता केवलो निर्गुणश्च॥” - श्वेताश्वतरोपनिषत् ६/११
इत्यादिविरोधः। सत्त्वादिगुणाभावोक्तेस्तत्र। अन्यथा “एको देवः सर्वभूतेषु गूढः” इत्यादीनामपि गुणत्वात् स्वोक्तिविरोधः।
२.२.१ निर्विशेषत्वनिरासः
नच निर्विशेषं नाम किञ्चिदस्ति। निर्विशेषत्वोक्तेरेव व्याहतत्वात्। निर्विशेषत्वेन विशिष्टं न वेत्युक्ते यद्यविशिष्टं तर्हि न विशेषनिराकरणम्। विशेषवत्त्वमेव भवति। यदि तेन विशिष्टं स एव विशेष इति व्याहतिः।
नच निर्विशेषत्वे किञ्चिन्मानम्। अशेषविशेषवचनानुभवयुक्तिविरोधश्च। नच मिथ्याविशेषवत्। व्याहतेः। मिथ्याविशेष इत्युक्ते ह्यसद्विशेष इत्येव भवति। तथाचाविशेषविशिष्टपक्षोक्तदोष एव।
२.२.२ अनिर्वचनीयत्वनिरासः
नचानिर्वचनीयविशेष इति भवति। अनिर्वचनीयासिद्धेः। नहि तत्र प्रत्यक्षमस्ति। मिथ्याशब्दस्त्वभाववाच्येव। तदन्यत्र प्रमाणाभावात्। नचान्यत् प्रमाणम्। प्रतिज्ञाव्याहतेः। नहि सदन्तरादसतश्चान्यत् सदसद्विलक्षणं प्रसिद्धम्। ‘असन्न भवति’ इत्युक्ते
“द्वौ नञौ प्रकृतमर्थं सातिशयं गमयतः”
इति सदेव भवति। असदन्तरं वा विशेषविवक्षायाम्।
किञ्चैतद्वैलक्षण्यं भेदोऽभेदो भेदाभेदो वा। न तावद् भेदः, अनङ्गीकारात्। व्यावहारिकभेदश्चानिर्वाच्यसिद्धौ वक्तव्यः। नचाव्यावहारिकं किञ्चित्। नचाशेषव्यवहारनिवृत्तौ किञ्चिन्मानम्। नच मिथ्यातथ्ययोः सामान्यं व्यावहारिकत्वं धूमबाष्पयोर्धूमत्ववत्। नचाभेदः, अनङ्गीकारादेव। तथैवोभयम्। अभेदे चानिर्वाच्यब्रह्मणोस्तच्छब्दयोः पर्यायत्वम्। नच व्यावर्त्यविशेषेणापर्यायत्वं क्वचित्। व्यावर्त्यविशेषस्तद्व्यावृत्ते ब्रह्मणि विशेषमापादयति चेत्, विशिष्टवाक्यार्थता। न चेत्, न ब्रह्मज्ञानार्थिने पदान्तरं वाच्यम्। असङ्गतत्वात्। मिथ्याविशेषस्य चासिद्धिरुक्ता। अतोऽन्योन्याश्रयताऽनवस्थितिश्चक्रकं वा। भेदाभेदविलक्षणमप्युक्तरीत्यैवापाकृतम्।
किञ्च, ‘असद्विलक्षणम्’ इत्यत्राभावान्यविरोधानां मध्ये नञः कोऽर्थः? यद्यभावः, न। असद्विलक्षणत्वं भावत्वमेव जगतः स्यात्। नच सतोऽन्यस्मादसतो विलक्षणं जगत्। असतोऽन्यत्वादिधर्मानङ्गीकारात्। ब्रह्मणश्च। असतोऽनिर्वचनीयत्वाङ्गीकाराच्च न वैलक्षण्यं ततोऽनिर्वाच्यस्य। तथापि चेद् वैलक्षण्यं नानिर्वाचनीयत्वं[5] जगतः। नच विरोधः। विरोधिनोरन्यतरनिषेधेऽन्यतरव्याप्तत्वानुभवात्। ‘अविद्यमानं न भवति’ इत्युक्ते विद्यमानमित्येव हि सर्वलोकानुभवः।
अतोऽनन्तगुणो भगवान् नारायण इति सिद्धम्।
२.३ श्रुतीनां सिद्धबोधकत्वसमर्थनम्
नच सिद्धेऽर्थे वाक्यस्य प्रामाण्याभावादीश्वराद्यसिद्धिः। सिद्धातिरिक्तकार्याभावात्। लिङाद्यर्थस्त्विष्टसाधनत्वमेव। नहि कर्तव्यत्वं नामेष्टसाधनत्वादन्यत् किञ्चित्। तन्मानाभावात्। शब्दस्तु न तद् वक्तीत्युक्तम्। लिङादेरिष्टसाधनार्थत्वेनैव कृतार्थत्वे तदन्यकार्यकल्पने कल्पनागौरवं च।
नच तत्कल्पकं किञ्चित्। विप्रतिपत्तौ चान्यन्मानं वक्तव्यं तद्भावे। नचानुमा। अप्रसिद्धविशेषणत्वात्। नचार्थापत्तिः। अनुपपत्त्यभावात्।
कार्याभावादेव कार्यान्वयिनि व्युत्पत्तिरित्यादि दूरतो निरस्तम्। कार्यान्विते व्युत्पत्तिरिति वदतोऽकार्यान्विते व्युत्पत्तिरित्युक्ते किमुत्तरम्? अध्याहार इत्युक्ते लोप इत्युत्तरम्। अशेषसिद्धपदानामर्थलोपाल्लिङाद्यर्थमात्रलोप एव गरीयान्।
‘हससि’ ‘हसामि’ इत्यादिसिद्धार्थ एव बालानां व्युत्पत्तेः। प्रथमप्राप्तत्वान्न तत्त्यागे कारणम्। तथैव व्युत्पत्तिदर्शनाच्च।
अतः सिद्धार्थे प्रामाण्यसिद्धेश्च सिद्धं महागुणवत्त्वं विष्णोः।

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Source and Copyright: The Sanskrit works of Madhvacharya reproduced here are ancient public-domain texts. Digital Sanskrit sources are acknowledged wherever applicable. The English translations, explanatory notes and original editorial material on madhva.in are © Madhukrishna Sudhindra, unless otherwise indicated.