Kāthakopaniṣat Bhāshya (काठकोपनिषत् )
2.2.02
हंसः शुचिषद्वसुरन्तरिक्षसद्धोता वेदिषदतिथिर्दुरोणसत्। नृषद्वरसद्रुतसद्व्योमसदब्जा गोजा ऋत जा अद्रिजा ऋतं बृहत् ॥२॥
Bhāṣya 2.2.02
नित्यं हीनोऽखिलैर्दोषैः साररूपो यतो हरिः। हंस इत्युच्यते तस्मात् वायुस्थः शुचिषत् स्म्रुतः॥
वरसुर्वसुरित्युक्तः स एवाप्यन्तरिक्षगः। होता सर्वेन्द्रियादिस्थो वेद्यां पूज्यश्च वेदिषत्॥
आत्यन्नश्चातिथिः प्रोक्तो यस्मादन्नं थमुच्यते। स द्रोणकलशे सोमे स्थित उक्तो दुरोणसत्॥
नृषु स्थितस्थ देवेषु वरेष्वपि स एव तु। ऋतरूपे तथा वेदे व्योमाख्य प्रकृतावपि॥ व्योतं जगदिदं यस्यां सा व्योम श्रीरुदाहृता॥
अब्जगोजाद्रिजेष्वेवमास्ते सोऽब्जादिकस्ततः। तथैवर्तेषु मुक्तेषु गतास्ते विष्णुमित्यृताः॥
वेदैर्मुख्यतया प्रोक्तः ऋतमित्येव चोच्यते। बृहत्पूर्णगुणत्वाच्च स एव पुरुषोत्तमः॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2023, Incredible Wisdom.
All rights reserved.